Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 7
________________ श्रीवात्स्यायनसमयसमीक्षा। किं च-कौटिलीयार्थशास्त्रस्य विद्यासमुद्देशाख्यप्रकरणे "प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् / आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता" इति पचं कौटिल्येनोक्तम् एतत्पद्यमुद्दिश्यैव प्रथमस्य न्यायसूत्रस्य भाज्यान्ते- " सेयमान्वीक्षिकी प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् / / आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता // " इत्युक्तम् / प्रकीर्तितेतिक्तप्रत्ययेनान्वीक्षिकीकीर्तनस्य भूतकालिकत्वं स्पष्टमेव, न च न्यायभाष्ये विद्योद्देशनामकः कश्चिद्भागो वर्तते. प्रथमसूत्रे च आन्वीक्षिकीतिशब्दोपि नास्ति, कौटिलीयार्थशास्त्रे तु विद्यासमुद्देशनामको भागो वर्तते इति मन्ये न्यायभाष्ये विद्योद्देशब्देन तमेव भागं भाष्यकारोऽभिप्रेति तस्मात्सिद्धं द्वयोर्ग्रन्थयोरेककर्तृकत्वमिति।। यद्यप्युक्तोभयोर्ग्रन्थयोः कर्तृभेदेपि कौटलीयार्थशास्त्रोक्तिमभिप्रेत्य न्यायभाष्यकृता “विद्योदेशे प्रकीर्तिता" इति वक्तुं शक्यते तथाप्युभयत्राप्युक्तपद्ययोः पादत्रयस्याक्षरश एकानुपूर्वीकत्वमेककर्तृकत्वं द्रढयति- एतादृशविदुषां परवाक्यचौर्यपरत्वानुपपत्तेः। लेखशैलेः साम्येनोभयत्रापि पद्येन समाप्तिसूचनसाम्यात् समानशब्दप्रयोगैरपि चैककर्तृकत्वमनुमीयते। ननु कौटलीयार्थशास्त्रस्य विद्यासमुद्देशे " सांख्यं योगो लोकायतं चेत्यान्वीक्षिकी" इतिवाक्येन सांख्यादीनामान्वीक्षिकीत्वमुक्तं न तु न्यायशास्त्रस्येति विरोध इति चेन्न- तत्र " आन्वीक्षिकी" इतिप्रथमान्तपाठस्याशुद्धत्वात् यतस्तदने “धर्माधर्मों त्रय्याम्. अर्थानों वार्तायाम्. नयानयौ दण्डनीत्याम्" इत्येवं विद्यावाचकत्रय्यादिशब्दानां सप्तम्यन्तः पाठोस्ति तस्मात् पूर्वोक्तवाक्ये आन्वीक्षिकीशब्दोपि सप्तम्यन्त एव युक्त इति "सांख्यं योगो लोकायतं चेत्यान्वीक्षिक्याम्" इत्येव पाठ: शुद्धः युक्तश्चायं सप्तम्यन्तः पाठः- न्यायदर्शने सांख्यादीनां विचारस्य प्रत्याख्यानस्योपलभ्यमानत्वात् / उपलभ्यमानस्यार्थशास्त्रपाठस्य बहुत्राशुद्धत्वं यशोधरेणाप्युक्तम्- "कौटलीयं यदि क्षान्तः स्वरयोईस्वदीर्घयोः। बिन्दष्मणोविपर्यासाद दुर्बोधमिति संजितम्" इति / किं च कामसूत्रग्रन्थोपि वात्स्यायनकृतस्तस्य च वात्स्यायनस्य कामसूत्रवृत्तिकार:“तमुपायमाचिख्यासुराचार्यमल्लनागः पूर्वाचार्यमतानुसारेण शास्त्रमिदं प्रणीतवान्" इत्येवं सुबन्धुश्च कविर्वासवदत्तायाम्- "कामसूत्रविन्यास इव मल्लनागघटितः" इत्येवं मल्लनाग इति नाम कीर्तयति नामधेयं चैतत् पूर्वोक्तकोशवाक्येन चाणक्यस्यावधार्यते / अपि च कौटलीयार्थशास्त्रस्य भागानां यानि अधिकरणाध्यायसमुद्देशादीनि नामान्युपलभ्यन्ते तान्येव तथैव च कामसूत्रेप्युपलभ्यन्ते / अपि च " यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्री विननाश" इत्यादीनि कानिचिद्वाक्यान्येकानुपूर्वीकाण्येव कामसूत्रे कौटलीयार्थशास्त्रे चोपलभ्यन्ते, औपनिषदिकस्याधिकरणस्य चोभयत्रापि परस्परं संवादः स्पष्ट एवेतिहेतुभिः कामसूत्रकौटिलीयार्थशास्त्रयोरेककर्तकत्वमनमीयते, कामसूत्रगतेन " इत्यर्थचिन्तकाः" इतिपाठमात्रेण कर्तृभेदो नोपपद्यते- कौटिल्यादपि पूर्वमर्थचिन्तकसत्तास्वीकारादित्यलम् , कामसूत्रं च वात्स्यायनप्रणीतमिति वात्स्यायनप्रणीतं न्यायभाष्यमपि कामसूत्रवत् चाणक्यप्रणीतमिति सिद्धम् / किं च “न कर्मकर्तृसाधनवैगुण्यात् 2-1-58" इतिन्यायसूत्रस्य भाष्येणास्य भाष्यकारस्य कामकलाकुशलत्वं स्पष्टं प्रतीयते / किं च कामसूत्रे- "श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः" इत्युक्तं तदनेन कामसूत्रकारस्य नैयायिकत्वं स्पष्टमेव- "आत्मा मनसा युज्यते मन इन्द्रियेण" इतिनैयायिकक्रमस्वीकारादिति कामसूत्रन्यायभाष्ययोरेककर्तृकत्वं सिद्धं तेन च यः खलु कामसूत्रकौटलीयार्थशास्त्रयोः कर्ता स एव न्यायभाष्यस्यापीति सिद्धम् / ___कौटलीयार्थशास्त्रस्य तु कर्ता जगत्प्रसिद्धश्चाणक्य एवेति तस्यान्तिमपद्येन स्फुतटरम् इदं च तत्पद्यम्

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 500