Book Title: Nyayadarshanasya Nyayabhashyam Author(s): Vatsyayan Publisher: Manilal Iccharam Desai View full book textPage 6
________________ अथ विद्धदरवात्स्यायनसमयसमीक्षा यद्यपि ग्रन्थकाराणां देशकालयोनिणये मे प्रवृत्तिर्नास्ति तथापि यः खलु नन्दराज्योच्छेदकर्ता क्रोधैकमूर्तिः पुष्पपुरवासी कौटिलेयार्थशास्त्रनिर्माता कौटिल्यापरनामधेयश्चाणक्यः स एवायं * न्यायभाष्यकर्ता कामसूत्रनिर्माता च वात्स्यायनमिश्र इति निश्चिनोमि, तथा हि "वात्स्यायने मल्लनागः कौटिल्यश्चणकात्मजः।। द्रामिलः पक्षिलस्वामी विष्णुगुप्तोऽङ्गुलश्च सः॥” इत्यभिधानचिन्तामणौ " विष्णुगुप्तस्तु कौण्डिन्यश्चाणक्यो द्रमिलोंशुलः। . वात्स्यायनो मल्लनागपक्षिलस्वामिनावपि // " इति त्रिकाण्डशेषकोशे इत्यादिकोशवाक्यैर्वात्स्यायनादयः शब्दाश्चाणक्यस्य वाचका इति स्पष्टमेव, द्वितीयश्लोके कौटिल्यशब्दस्यैव भ्रान्त्या कौण्डिन्य इतिपाठो जात इति संभावयामि, न च प्रमाणं विनैतादृशानां कोशवाक्यानामप्रामाण्यं संभवति, अस्य वात्स्यायनस्य पक्षिलस्वामीति नामधेयं वाचस्पतिमिश्रेण तात्पर्यटीकायामुक्तम्, मल्लनाग इति कामसूत्रवृत्तौ वासवदत्तायां चोक्तम्, चाणक्यस्य विष्णुगुप्त इति नामधेयं दशकुमारे प्रयुक्तम्, वात्स्यायन इति स्वयमेवोक्तम्, एतानि च नामानि कोशकारैरपि संगृहीतानीति कोशवाक्यप्रामाण्यं तेन चायं वात्स्यायनो चाणक्य एवेति सिध्यति / कामसूत्रकर्तापि चायमेव वात्स्यायन:-विपक्षे बाधकाभावादिति मल्लनागोप्ययमेव अस्य च नन्दराज्योच्छेदकर्तृत्वेन कौटिल्यप्राधान्यात् कौटिल्य इति, चणकात्मजत्वाचाणिक्य इति गोत्रप्राधान्याद्वात्स्यायन इति नामधेयम्, विष्णुगुप्त इति पितृकृतं स्यात्, एतादृशोद्धतकार्यकारित्वस्य द्रविडका टिकयोरेव संभवादयं द्राविडः स्यादिति द्रविडशब्दस्य द्वामिल इतिजातम, कामसूत्रनिर्मातृत्वात कामपरायणत्वं तेन च कपोतादिपक्षिपालकत्वं प्राप्नोति- अद्यत्वेपि प्रायस्तथा दर्शनादिति पक्षिल इति नामधेयं द्राविडत्वात् पक्षिलस्वामीति नामधेयं जातमिति तर्कयामि / ननु महाभाष्ये कौण्डिन्यशब्दपाठादयं कौण्डिन्यस्ततोपि प्राचीनः संभवतीति चेन्न-न्यायभायेप्यस्मिन् द्वितीयाध्यायद्वितीयाह्निके याशब्देति 61 सूत्रस्य भाष्ये कौण्डिन्यशब्दस्य पाठादिति नायं कोण्डिन्यः किं तु कौटिल्य एव / विशिष्टाद्वैतस्यापि प्रथमं भाष्यकर्ता कश्चिद् द्रमिडनामको जात सोप्ययमेव वाऽन्यो वा कश्चिदिति नावधार्यते। / किं च प्रथमस्य न्यायसूत्रस्य न्यायभाष्येऽत्र "इमास्तु चतस्रो विद्याः पृथक् प्रस्थानाःयासां चतुर्थीयमान्वीक्षिकी न्यायविद्या" इति विद्यानां चातुर्विध्यमुक्तम् एवमेव चाणक्यनिमितस्य कौटलीयार्थशास्त्रस्य विद्यासमुद्देशनामप्रकरणेपि- " आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति विद्याः" "चतस्र एव विद्या इति कौटिल्यः" इत्युक्तम्. इत्युभयोरपि ग्रन्थयोरर्थसंवादः स्पष्ट एव / एवं कौटलीयार्थशास्त्रस्य शासनाधिकाराख्यप्रकरणे- “वर्णसंघातः पदम्" इत्यादिना पदलक्षणादिकं यादृशं प्रतिपादितं तादृशमेव- "ते विभक्त्यन्ताः पदम् 2-2-59" इति न्यायसूत्रस्य भाष्येपि प्रतिपादितमित्यर्थसंवादेनोभयोरप्यनयोर्ग्रन्थयोरेककर्तृकत्वमनुमिनोमि / किं च- कौटलीयार्थशास्त्रस्य शासनाधिकाराख्यप्रकरणे एव- " पदसमूहो वाक्यमर्थपरिसमाप्तौ” इति वाक्यलक्षणमुक्तं तदेववाक्यलक्षणम्- " न सामयिकत्वाच्छब्दार्थसंप्रत्ययस्य 2-1-55" इति न्यायसूत्रस्यभाष्ये उक्तम्, न चोभयोर्ग्रन्थयोरन्यतरस्मिन्नपि तदुक्तम्' इत्यादिकं परवाक्यानुवादचिह्नमुपलभ्यते. नाप्येतादृशोत्तमानां विदुषां परवाक्यचौर्यमुपपद्यते. नाप्युतार्थसंवादसहितेऽस्मिन् वाक्यलक्षणवाक्ये घुणाक्षरन्यायः प्रवेणुमर्हति. तस्मादेतस्माद्वाक्यानुपूर्वीसंवादादप्युभयोर्ग्रन्थायोरेककर्तृकत्वं स्पष्टमेव प्रतिपद्यते /Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 500