Book Title: Nemijinstuti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ फेब्रुआरी २०११ १४३ भविकमलप्रतिबोधकत्वेनाऽपूर्वचन्द्रोऽसि । जगति-पदे हलदन्तादितिसूत्रेण समासे, सप्तम्या अलुक्, तस्य सम्बोधने-हे जगतिप्रमदकुमुदहिमदीधिते ! त्वं जय । कुं पृथ्वी पिपति-पालयति इति विग्रहे पृ पालनपूरणयोरस्मात्कर्मण्युपपदेऽण, अन्येषामपीति दीर्घ कूपारशब्दो लाक्षणिकस्तेनाऽत्र गृहीतो मेघ इति करुणारूप एव रसो जलं तस्य यः कूपारो मेघस्तेन करुणाईचेतोभावेन तस्माद् वा विमोचिता दूरीकृता परिणयनसमये पO(शू)नां सितिर्बन्धनता येन सः । यद्वा करुणारसः कूप इव कूपो गाम्भीर्यादिना गुणेन तमति प्राप्नोति यः स करुणारसकूपारो गम्भीरतादिगुणयुक्तः सन्, शेषं पूर्ववदेव । अत्रापि कू गतौ, ततोऽणि यथेष्टसिद्धिः । सिंधौ (सिद्धो ?)पृषोदराद्याकृतिगणत्वादकारलोपे कथंचिद् रूपसिद्धिरिति । तस्य सम्बोधने-हे करुणारसकूपारविमोचितपशुसिते !! षिञ् बन्धने ततः स्रियां भावे क्तिस्तेन सितिशब्दो निष्पन्न इति ॥२॥ जय जय स त्वमुदूटिधियाऽऽतुरता सती, त्यक्ता येन विरागवता राजीमती । जय जय निर्गतदोषकोषनिजगुणतते !, सकलसुरासुरराजरचितसार्चानते ! ॥३॥ जय जय स त्वमिति । उदूटिरूपा धीस्तया आतुरता-व्याकुलीभूता सती राजीमती येन विरागवता त्वया त्यक्ता स त्वं जय इत्यन्वयः । निर्गतो दोषकोषो-दोषसमूहो यस्या निजगुणततेरात्मिकगुणविस्तारात् यस्य सः यद्वा निर्गता-प्राप्ता दोषकोशात् अनादिकालीनमिथ्यात्वादि(दे)निजगुणानां ततिः-श्रेणिर्येन सः, तस्य सम्बोधने-हे निर्गतदोषकोषनिजगुणतते ! त्वं जय । ये गत्यर्थास्ते प्राप्त्यर्था इति वैयाकरणानां सिद्धान्तः । सकलसुरासुरराजभिः रचिता-कृता अर्चासहिता नतिर्यस्य सः, तत्सम्बोधनेहे सकलसुरासुरराजरचितसार्चानते ! ॥३॥ जय जय शमदमलीनपीनसमतारते ! भुवनविभूषणवर्णवर्णवारिजगते ! जय जय कुमतिकुवाटनिशाटनिशान्तकृद् !, वाग्द्युतिदर्शितभुवनभावपथपीथवद् ॥४॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8