Book Title: Nemijinstuti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229705/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ १४० अनुसन्धान- ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २ चतुर्भुजाख्यश्रद्धालुविरचिता रामचदर्षिकृत- प्रकाशाख्यटीका-विभूषिता नेमिजिनस्तुतिः सं. श्रीजगच्चन्द्रसूरिशिष्य मुनि शीलचन्द्रविजय गिरनारमण्डन श्रीनेमिनाथ प्रभुनी प्रस्तुत स्तुति चतुर्भुज नामना श्रावके रची छे. स्तुति संस्कृत भाषामां अने सममात्र नामना छन्दमां रचवामां आवी छे. गेयता अने मंजुल पदावलिने लीधे कृति खूब आनन्ददायक बनी छे. काव्यनी शैली परथी कर्ता विदग्ध पण्डित होवानुं जणाई आवे छे. लोकागच्छीय श्रीरामचन्द्रर्षिसे आ स्तुति पर 'प्रकाश' नामनी सरळ अने सुबोध टीका रचीने काव्यना मनोरम भावो सुधी पहोंचवानुं घणुं सहेलुं करी आप्युं छे. तेओओ आ टीका वि.सं. १९२३ना कारतक महिनामां बालुचर नगरमां (अजीमगंज पासे) श्रीअमृतचन्द्रसूरिजीना सांनिध्यमां रची छे. टीकाकार विद्वान छे से तो टीका वांचतां सहेजे समजाय छे, पण ६ठ्ठा श्लोकनी टीकामां तेओ पोताने मन्दमति तरीके जणावे छे अने टीकाना अन्ते विद्वानोने आ टीकाना शुद्धीकरण माटे प्रार्थना करे छे ते तेओनी निरभिमानिता सूचवे छे. ६ठ्ठो श्लोक पोताने अशुद्धरूपमां मळ्यो छे अवुं तेओ ते श्लोकनी टीकामां जणावे छे; जे परथी अवुं जणाय छे के मूळ काव्यना कर्ता तेओथी घणा पूर्ववर्ती होवा जोइओ. टीकाना आरम्भे मङ्गलश्लोकमां कोइ व्यक्तिविशेषने स्थाने व्याप्ति, व्यक्ति, स्फोट अने सिद्ध- ओम चार रूपवाळा तत्त्वने नमस्कार कर्यो छे ते नोंधपात्र छे. टीकामां रूपसिद्धि माटे पाणिनीय अष्टाध्यायीनां सूत्रो टांकवामां आव्यां छे. बालुचर नगरमां ज वि. १९२४ना पोष महिनामां लखवामां आवेली प्रत परथी प्रस्तुत कृतिनुं सम्पादन करवामां आव्युं छे. प्रतमां अशुद्धिओ घणी छे, जेनुं मार्जन करवानो यथाशक्य प्रयत्न करवामां आव्यो छे. सम्पादननो अनुभव न होवा छतां देवगुरुधर्मनी कृपा पर श्रद्धा राखी आ प्रथम प्रयत्न Page #2 -------------------------------------------------------------------------- ________________ फेब्रुअरी २०११ करेल छे. क्षतिओ प्रत्ये विद्वानोने ध्यान दोरवा विनन्ति. गृहस्थे रचेली कृति पर श्रमण भगवन्त टीका रचे अवां उदाहरणो इतिहासमां बहु थोडां छे. आ साथे तेमां एकनो उमेरो थाय छे. ॥ नेमिजिनस्तुतिः ॥ जय जय यादववंशावतंसजगत्पते !, समुद्रविजयनरराजशिवासुतसन्मते ! ॥ जय जय जनताजननजलधितारणतरे !, सावभावयोगीन्द्रसहोलवजितहरे ! ॥१॥ १४१ श्रीजिनवाण्यै नमः ॥ नमोस्तु व्याप्तिरूपाय, व्यक्तिरूपाय ते नमः । नमोस्तु स्फोटरूपाय, सिद्धरूपाय ते नमः ॥१॥ अथ प्रकृति (त)मनुसरामः ॥ जय जय यादववंशेति ॥ - त्वं जय त्वं जय सर्वोत्कर्षेण जेतृत्वगुणविशिष्टो भव । क्रियासमभिहारेऽत्र द्विर्वचनं, लोडन्तपदमेतत् । यदोरपत्यानि यादवास्तेषां वंशो हरिवंश इति । यद्वा यदोरयम्, इदमर्थोऽण्, यादवः, स चाऽसौ वंशश्चेति कर्म्मधारयः । यदुराज्ञः प्रादुर्भूता यादववंशस्य ख्यातिर्लोके इति । तस्य तस्मिन् वा वतंसः - शेखरो चूडामणिः शिरोभूषणविशेष इव प्रग ( क )टीभूतो जगतां पतिर्यः स । तस्य सम्बोधने – हे यादववंशावतंसजगत्पते ! त्वं जय । अत्र सर्वत्र समस्तवृत्तपदेन सम्बोधनमग्रेतनपादे तथैव प्रदर्शितत्वात् । स्तुत्यादौ पुनरुक्तिदोषोऽपि न भयावहः । पृथक् पृथक् सम्बोधनत्वेऽपि न क्षतिरिति स्वधियैव सम्यक् प्रविचार्य वक्तव्यं मनीषिभिः, तत्राऽस्माकं नाऽत्यादरः, किं बहुना जल्पनेनेति दिक् । द्वौ जिनौ हरिवंशे समुत्पन्नावतो विंशतितमजिननिरासार्थमन्यद् विशेषणं विशिनष्टि । एवं सर्वत्र स्वधियैव भावना कार्या इति । - I समुद्रविजयनरराजेति । राजते-शोभते इति राजा, तेषां तेषु वा राजा नरराज इति राजाह:सखिभ्यश्चेति तत्पुरुषे टच् - प्रत्ययस्ततः कर्मधारयस्ततो[‘शिवा' इत्यनेन] द्वन्द्वस्तयोः सुत इति तत्पुरुषस्ततः सन्मतिना सह कर्मधारये Page #3 -------------------------------------------------------------------------- ________________ १४२ अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २ कृते यथेष्टसिद्धिस्तत्सम्बोधने - हे समुद्रविजयनरराज - शिवासुतसन्मते !! जनानां समूहो जनता, समूहे ऽर्थे तल्-प्रत्ययः । जनताया- - जनसमूहस्य जननं-जन्म तदेव जलधिः- समुद्रस्तस्य तस्मिन् वा तारणरूपा तरिरिव तरिर्यः स, तत्सम्बोधने-हे जनता-जननजलधितारणतरे ! त्वं जय । सवनं- - सावः क्षयः, षोऽन्तकर्मणि, अस्माद् भावे घञ्-प्रत्ययः । सावरूपो भावः सावभावः, तद्धितीय - ठक्-प्रत्ययः, क्षायिकभावो निश्चलभावइति यावत्, सप्तक्षये क्षायिक इति श्रुतेः । यद्वा षुप् सवैश्वर्ययोरस्मादपि घञि कृते सावभावो-बालभाव ऐश्वर्यरूपभावो वा । तत्र त्वं योगीन्द्रः सन्नपि मित्रादि प्रेरणया आयुधशालायां सहसो बलस्य लवो-लेशस्तेन जितस्तिरस्कृतो हरिर्विष्णुर्येन सः । द्वितीयपक्षेऽपि नेमेर्बलवर्णनावसरे हरिपदेन लक्षणया इन्द्रसामानिकसुरो ग्राह्यः, शेषं तथैव । एतत् सर्वमितिहासादौ प्रसिद्धमेव । तत्सम्बोधने-हे सावभाव-योगीन्द्रसहोलवजितहरे ! इति ॥१॥ जय जय जनदुर्वारमारमदगिरिपवे !, सजलजलदशितिवर्णसवर्णतनुच्छवे ! । जय जय जगति प्रमदकुमुदहिमदीधिते !, करुणारसकूपारविमोचितपशुसिते ! ॥२॥ जय जय जनदुर्वारेति । जनैर्दुःखेन वार्यते इति जनदुर्वारः, स एव मारस्याऽनङ्गस्य मदोऽहंकारः, स एव गिरिः - पर्वतस्तस्य तत्र वा समूलोन्मूलने पविरिव पविर्वज्र इव वज्रो यः सः । 'ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पवि’रित्यमरः । तस्य सम्बोधने - हे जनदुर्वारमारमदगिरिपवे ! त्वं जय । यद्वा मारश्च मदश्चेति द्वन्द्वे कृते पश्चात् बहुव्रीहिरित्यपि साधु । सजलो जलयुक्तो यो जलदो - मेघस्तस्य यो शितिवर्णः-कृष्णवर्णस्तत्सवर्णा तुल्या तनोः शरीरच्छविर्द्युतिर्यस्य सः, तस्य सम्बोधने - हे सजलदशितिवर्णसवर्णतनुच्छवे ! । जगति-संसारे प्रमदो य: सौरभ्यगुणविशिष्टः, कुमुदं सितकमले (लं) कुमुदिनीरूपं वा तद्विकाशने, हिमा दीधितिर्यस्य स हिमदीधितिश्चन्द्रश्चन्द्र इव चन्द्रो यः सः । यथा गगनस्थचन्द्रः कमलवनं प्रकाशयति तथा त्वं तु Page #4 -------------------------------------------------------------------------- ________________ फेब्रुआरी २०११ १४३ भविकमलप्रतिबोधकत्वेनाऽपूर्वचन्द्रोऽसि । जगति-पदे हलदन्तादितिसूत्रेण समासे, सप्तम्या अलुक्, तस्य सम्बोधने-हे जगतिप्रमदकुमुदहिमदीधिते ! त्वं जय । कुं पृथ्वी पिपति-पालयति इति विग्रहे पृ पालनपूरणयोरस्मात्कर्मण्युपपदेऽण, अन्येषामपीति दीर्घ कूपारशब्दो लाक्षणिकस्तेनाऽत्र गृहीतो मेघ इति करुणारूप एव रसो जलं तस्य यः कूपारो मेघस्तेन करुणाईचेतोभावेन तस्माद् वा विमोचिता दूरीकृता परिणयनसमये पO(शू)नां सितिर्बन्धनता येन सः । यद्वा करुणारसः कूप इव कूपो गाम्भीर्यादिना गुणेन तमति प्राप्नोति यः स करुणारसकूपारो गम्भीरतादिगुणयुक्तः सन्, शेषं पूर्ववदेव । अत्रापि कू गतौ, ततोऽणि यथेष्टसिद्धिः । सिंधौ (सिद्धो ?)पृषोदराद्याकृतिगणत्वादकारलोपे कथंचिद् रूपसिद्धिरिति । तस्य सम्बोधने-हे करुणारसकूपारविमोचितपशुसिते !! षिञ् बन्धने ततः स्रियां भावे क्तिस्तेन सितिशब्दो निष्पन्न इति ॥२॥ जय जय स त्वमुदूटिधियाऽऽतुरता सती, त्यक्ता येन विरागवता राजीमती । जय जय निर्गतदोषकोषनिजगुणतते !, सकलसुरासुरराजरचितसार्चानते ! ॥३॥ जय जय स त्वमिति । उदूटिरूपा धीस्तया आतुरता-व्याकुलीभूता सती राजीमती येन विरागवता त्वया त्यक्ता स त्वं जय इत्यन्वयः । निर्गतो दोषकोषो-दोषसमूहो यस्या निजगुणततेरात्मिकगुणविस्तारात् यस्य सः यद्वा निर्गता-प्राप्ता दोषकोशात् अनादिकालीनमिथ्यात्वादि(दे)निजगुणानां ततिः-श्रेणिर्येन सः, तस्य सम्बोधने-हे निर्गतदोषकोषनिजगुणतते ! त्वं जय । ये गत्यर्थास्ते प्राप्त्यर्था इति वैयाकरणानां सिद्धान्तः । सकलसुरासुरराजभिः रचिता-कृता अर्चासहिता नतिर्यस्य सः, तत्सम्बोधनेहे सकलसुरासुरराजरचितसार्चानते ! ॥३॥ जय जय शमदमलीनपीनसमतारते ! भुवनविभूषणवर्णवर्णवारिजगते ! जय जय कुमतिकुवाटनिशाटनिशान्तकृद् !, वाग्द्युतिदर्शितभुवनभावपथपीथवद् ॥४॥ Page #5 -------------------------------------------------------------------------- ________________ १४४ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ जय जय शमेति । शमः क्रोधाभावरूपः, दमः इन्द्रियाणां वशीकरणरूप-स्तयोर्लीनस्तेन पीना-पुष्टतां प्रापिता समतायां रतिर्येन सः, तत्सम्बोधने-हे शमदमलीनपीनसमतारते ! त्वं जय । ___ भुवनस्य-लोकत्रयस्य विभूषणमिव विभूषणं यः सः सन्, वर्णेन वर्णः श्रेष्ठो वर्णः सोऽस्ति येषां येषु वा तानि वर्णवर्णानि, तान्येव वारिजानि-कमलानि अर्थात् तेषु स्वर्णकमलेषु विहारसमये गतिर्गमनं यस्य सः, तत्सम्बोधने-हे भुवनविभूषणवर्णवर्णवारिजगते ! । कुमतिरेव कुवाट:-कुत्सितमार्गस्तत्र प्रवृत्ता ये निशायामटन्ति ये ते निशाटा-निशाचरादयस्तद्धर्मवत्पाखण्डिनोऽपि निशाटा एव तेषामदृश्यताकरणे निशान्तकृदिव सूर्य इव सूर्यो यः सः तस्य सम्बोधने-हे कुमतिकुवाटनिशाटनिशान्तकृत् । यथा सूर्योद्गते निशाचरादयोऽदृश्यतां यान्ति तथैव पाखण्डिनोऽपि दूरतरे व्रजन्ति अतस्त्वमपूर्वसूर्योऽसि, त्वं जय । वाचो द्युतिः प्रभा, तया दर्शितो यो भुवनभावो-लोकत्रयात्मकस्य सदसद्प भावः स एव पन्थास्तस्य प्रकाशने पीथवत् प्रकृष्टदीपक इव यः सः । यद्वा वाग्द्युत्या पञ्चत्रिंशद्वाणीनां गुणतया दर्शित:-प्रकाशितो भुवनभावपथो पीथवत्प्रदीपवत् येन तत्सम्बोधनेपि-हे वाग्द्युतिदर्शितभुवनभावपथपीथवत् । वत्वन्तस्याऽव्ययत्वात् क्लीबत्वनिर्देशोऽत्रेति ॥४॥ जय जय दीक्षान्यक्षवृत्तिनिर्वृतिवृते !, कृतरैवतगिरिराजतीर्थताविश्रुते ! । जय जय संश्रितसत्त्वसमीहितदायक !, दुर्गतिदवलवनेमिनेमिजिननायक ! ॥५॥ जय जय दीक्षेति । दीक्षया नियन्तानि-वशीकृतानि अक्षाणि-हृषीकाणि इन्द्रियविषयाणि यस्मिन् स न्यक्षः सर्वसंवरात्मको भावरूपस्तद्रूपा वृत्तिः न्यक्षवृत्तिः । सा एव निर्वृतिय॑क्षवृत्तिनिर्वृतिस्तस्या वृतिर्वरणं स्वीकारो यस्य सः। अतोऽनन्तचतुष्टयित्वं सिद्धत्वे प्रसिद्धमेव । यद्वा दीक्षान्यक्षवृत्त्या निर्वृतेर्मुक्तेर्वृत्तिः-स्वीकारो यस्य सः,तस्य सम्बोधने-हे दीक्षान्यक्षवृत्तिनिर्वृतिवृते ! त्वं जय । कृता रैवतगिरिराजस्य रैवताचलस्य तीर्थतायास्तीर्थरूपस्य विश्रुतिःख्यातिर्येन सः, तस्य सम्बोधने-हे कृतरैवतगिरिराजतीर्थताविश्रुते । Page #6 -------------------------------------------------------------------------- ________________ फेब्रुआरी २०११ १४५ संश्रितास्त्वत्-शरणं प्रति प्राप्ता ये सत्त्वाः-प्राणिनस्तेषां समीहितस्यमनोभिलषितफलस्य दायको यः सः, तस्य सम्बोधने-हे संश्रितसत्त्वसमीहितदायक! त्वं जय । दुर्गतिरूपो यो दवो-वनं तस्य यो लव-उच्छेदनं तत्र नेमिरिव चक्रधारा इव नेमिजिननायको यः सः, तस्य सम्बोधने हे दुर्गतिदवलवनेमिनेमिजिननायक ! ॥५॥ पञ्चभिः कुलकमिदम् ॥ सुदिनमहो मम चाऽद्य तथा सुदशा धव !, दर्शनमिह यदभत्किल मेऽप्यघिने तव । सिद्धं चिन्तितकार्यमार्य सफला जनि रजनिष्टचरीदमंदभंदकंदावनी ॥६॥ सुदिनमिति । हे धव ! – हे स्वामिन् ! अहो इति आश्चर्ये । किल इति सम्भावनायाम् । मे-ममाऽपि अघिनः-पापात्मन इह जन्मनि यत् तव दर्शनमभूत् तत् तस्मात् कारणात् मम चाऽद्यतमं सुदिनं सुदशा च वर्तते इति । हे आर्य! मम चिन्तितकार्यमपि सिद्धं जातम् । मम जनिर्जन्म उत्पत्तिरपि सफला-फलवती जाता । पुनः चरीदमंदो देशविरतिरूपो यो भन्दः, कल्पद्रुमस्तस्य यो कन्दस्तस्य अवनिरिव क्षितिरिव क्षितिर्देशविरतिरूपांऽकुरोपि अजनिष्टप्रादुरभूत् मे-मम हृत्क्षितौ । एतत् पदमशुद्धतरं यथाकथंचित् समर्थितम् । यद्वा मम बुद्धेर्मान्द्यरूपदोषेण सम्यगर्थो नाऽवभासित इत्यलम् ॥६॥ विश्वजनीन ! सदीनमिति निजदृक्सृति, कथमथ मामवमान्य भजेर्यशसोन्नतिम् । त्वत्किङ्करमवगत्य सत्यसुखसावधि, प्रतिजनि मे निजमेव देव ! दिश सन्निधिम् ॥७॥ विश्वजनीनेति । अथ इत्यनन्तरं हे विश्वजनीन ! - हे विश्वजनहितकारक! सदीनमितं सदीनतागुणयुतं निजदृक्-सृतिं त्वदृष्टिपथप्राप्त मामवमान्याऽवगणयित्वा यशसा उन्नतिं लोके प्रसिद्धतां त्वं कथं भजेः कथं प्राप्नुहि ? अथ हे देव ! मां त्वत्किङ्करं दासरूपमवगत्य भवान् ज्ञात्वा, प्रतिजनि Page #7 -------------------------------------------------------------------------- ________________ १४६ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ अत्राऽव्ययीभावत्वाद्विभक्तेलृक् बोध्यः, मुक्तिपदप्राप्तिपर्यन्तरूपे भवे भवे मे-मम मह्यं वा निजमेव-स्वकीयमेव सन्निधिं समीपतारूपं सम्यक्त्वरूपरत्नं वा त्वं दिश-देहि इत्यन्वयः ॥७॥ भूरिजनो यदरक्षि भवान् निजसदृशा, सम्प्रति माऽप्यनुप्रेक्ष्य विभो ! भव नवयशाः । किं बहुयाचनयाऽथ नाथ ! तव पार्श्वतः, स्वीयचरणशरणैकगतं कुरु मामवतः (मतः) ॥८॥ भूरिजनो यदेति । हे विभो ! - हि विश्वव्यापक ! निजसदृशा निजसमीचीनदृष्ट्या स्वकीयसद्दर्शनेन इति यावत्, भवात्-संसारात् भूरिजनो यद् भवता अरक्षि-रक्षां कृतवान् । संप्रति-इदानीं मे' मह्यं मम वा, अनुप्रेक्षित्वा इति अनुप्रेक्ष्य ईक्षदर्शनाङ्कनयोरस्माद्धातोः क्त्वास्थाने क्त्वो ल्यबिति सूत्रेण ल्यपि कृते यथेष्टरूपसिद्धिः, स्वीयसद्दर्शनं दत्त्वा त्वं नवयशा भव नूतनयशोयुक्तस्त्वं स्या इति कर्तुर्हार्दम् । __ अथेत्यनन्तरं हे नाथ ! अतः परं तव पार्श्वतः बहुयाचनया किं पर्याप्त सृतमिति किमित्यसा[व]र्थः ? स्वीयचरणयोः शरणैकगतं-शरणैकतारूपं मां त्वं कुरु, भवे भवे मम तव चरणयोरेव शरणमस्तु इत्यन्वयः ॥८॥ छन्दस्तु सममात्राख्यम् । इति स्तुतः श्रीगिरिनारमण्डनः, संसेव्यमानोऽम्बिकया निरन्तरम् । नेमीश्वरः स्तात् सततं सदङ्गिनां, चतुर्गतिभ्रान्तिहरः शिवङ्करः ॥९॥ इति श्रीनेमीश्वरस्तुतिः । संवत् १९२४रा मिति पोष-शुक्ल-९ मन्दवारे बालुचरपत्तने ॥श्रीः॥ इति स्तुत इति । इति परिसमाप्तौ, इत्थं वा अमुना प्रकारेण, श्रीगिरिनारमण्डनोऽम्बिकया देव्या निरन्तरं संसेव्यमानो यो नेमीश्वरो भगवान् मया स्तुतः स्तुतिं कृतवान्,२ स एव नेमीश्वरो द्वाविंशतितमजिननायकः सततं-निरन्तरं १. श्लोकानुसारं त्वत्र ‘मा-मामपि' इत्यनेन भाव्यम् । श्लोके वा 'सम्प्रति मेऽप्यनु०' इति परिवर्तनीयम् । २. 'स्तुतः' इत्यस्याऽर्थः 'स्तुतिकर्मतां प्रापितः' इति स्यादिति भाति । Page #8 -------------------------------------------------------------------------- ________________ फेब्रुआरी 2011 147 सदङ्गिनां भव्यप्राणिनां चतुर्गतिभ्रान्तिहर अत एव शिवङ्करः स्तात्-भवतु इत्यन्वयः // 9 // कृपालुविपश्चिद्भिः संशोध्यमेतत् / विद्वद्जनसङ्कीर्णे, अमृतचन्द्रसूरिसन्निधौ रचितः / जाग्रत्प्रभावजनिते, नेमीश्वरे मे मतिर्भूयात् // 1 // त्रिनेत्राङ्कविधुमितेऽब्दे (1923), कार्तिकमासस्य पूर्णिमासु तिथौ / बालूचरे पुरवरे, प्रकाशो रामचन्द्रर्षिणा // 2 // युग्ममिदम् / भविनामयं चिरं नन्दतु / इति चतुर्भुजाख्यश्रद्धालुकृत-नेमिजिनस्तुतेरयं प्रकाशः / C/o. सुरेन्द्रसूरि जैन पाठशाला झवेरीवाड, पटणीनी खडकी, अमदावाद-१