________________
फेब्रुअरी २०११
करेल छे. क्षतिओ प्रत्ये विद्वानोने ध्यान दोरवा विनन्ति.
गृहस्थे रचेली कृति पर श्रमण भगवन्त टीका रचे अवां उदाहरणो इतिहासमां बहु थोडां छे. आ साथे तेमां एकनो उमेरो थाय छे.
॥ नेमिजिनस्तुतिः ॥
जय जय यादववंशावतंसजगत्पते !, समुद्रविजयनरराजशिवासुतसन्मते ! ॥ जय जय जनताजननजलधितारणतरे !, सावभावयोगीन्द्रसहोलवजितहरे ! ॥१॥
१४१
श्रीजिनवाण्यै नमः ॥
नमोस्तु व्याप्तिरूपाय, व्यक्तिरूपाय ते नमः । नमोस्तु स्फोटरूपाय, सिद्धरूपाय ते नमः ॥१॥
अथ प्रकृति (त)मनुसरामः ॥ जय जय यादववंशेति ॥ -
त्वं जय त्वं जय सर्वोत्कर्षेण जेतृत्वगुणविशिष्टो भव । क्रियासमभिहारेऽत्र द्विर्वचनं, लोडन्तपदमेतत् । यदोरपत्यानि यादवास्तेषां वंशो हरिवंश इति । यद्वा यदोरयम्, इदमर्थोऽण्, यादवः, स चाऽसौ वंशश्चेति कर्म्मधारयः । यदुराज्ञः प्रादुर्भूता यादववंशस्य ख्यातिर्लोके इति । तस्य तस्मिन् वा वतंसः - शेखरो चूडामणिः शिरोभूषणविशेष इव प्रग ( क )टीभूतो जगतां पतिर्यः स । तस्य सम्बोधने – हे यादववंशावतंसजगत्पते ! त्वं जय । अत्र सर्वत्र समस्तवृत्तपदेन सम्बोधनमग्रेतनपादे तथैव प्रदर्शितत्वात् । स्तुत्यादौ पुनरुक्तिदोषोऽपि न भयावहः । पृथक् पृथक् सम्बोधनत्वेऽपि न क्षतिरिति स्वधियैव सम्यक् प्रविचार्य वक्तव्यं मनीषिभिः, तत्राऽस्माकं नाऽत्यादरः, किं बहुना जल्पनेनेति दिक् । द्वौ जिनौ हरिवंशे समुत्पन्नावतो विंशतितमजिननिरासार्थमन्यद् विशेषणं विशिनष्टि । एवं सर्वत्र स्वधियैव भावना कार्या इति ।
-
I
समुद्रविजयनरराजेति । राजते-शोभते इति राजा, तेषां तेषु वा राजा नरराज इति राजाह:सखिभ्यश्चेति तत्पुरुषे टच् - प्रत्ययस्ततः कर्मधारयस्ततो[‘शिवा' इत्यनेन] द्वन्द्वस्तयोः सुत इति तत्पुरुषस्ततः सन्मतिना सह कर्मधारये