________________
१४४
अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२
जय जय शमेति । शमः क्रोधाभावरूपः, दमः इन्द्रियाणां वशीकरणरूप-स्तयोर्लीनस्तेन पीना-पुष्टतां प्रापिता समतायां रतिर्येन सः, तत्सम्बोधने-हे शमदमलीनपीनसमतारते ! त्वं जय ।
___ भुवनस्य-लोकत्रयस्य विभूषणमिव विभूषणं यः सः सन्, वर्णेन वर्णः श्रेष्ठो वर्णः सोऽस्ति येषां येषु वा तानि वर्णवर्णानि, तान्येव वारिजानि-कमलानि अर्थात् तेषु स्वर्णकमलेषु विहारसमये गतिर्गमनं यस्य सः, तत्सम्बोधने-हे भुवनविभूषणवर्णवर्णवारिजगते ! ।
कुमतिरेव कुवाट:-कुत्सितमार्गस्तत्र प्रवृत्ता ये निशायामटन्ति ये ते निशाटा-निशाचरादयस्तद्धर्मवत्पाखण्डिनोऽपि निशाटा एव तेषामदृश्यताकरणे निशान्तकृदिव सूर्य इव सूर्यो यः सः तस्य सम्बोधने-हे कुमतिकुवाटनिशाटनिशान्तकृत् । यथा सूर्योद्गते निशाचरादयोऽदृश्यतां यान्ति तथैव पाखण्डिनोऽपि दूरतरे व्रजन्ति अतस्त्वमपूर्वसूर्योऽसि, त्वं जय ।
वाचो द्युतिः प्रभा, तया दर्शितो यो भुवनभावो-लोकत्रयात्मकस्य सदसद्प भावः स एव पन्थास्तस्य प्रकाशने पीथवत् प्रकृष्टदीपक इव यः सः । यद्वा वाग्द्युत्या पञ्चत्रिंशद्वाणीनां गुणतया दर्शित:-प्रकाशितो भुवनभावपथो पीथवत्प्रदीपवत् येन तत्सम्बोधनेपि-हे वाग्द्युतिदर्शितभुवनभावपथपीथवत् । वत्वन्तस्याऽव्ययत्वात् क्लीबत्वनिर्देशोऽत्रेति ॥४॥
जय जय दीक्षान्यक्षवृत्तिनिर्वृतिवृते !, कृतरैवतगिरिराजतीर्थताविश्रुते ! । जय जय संश्रितसत्त्वसमीहितदायक !,
दुर्गतिदवलवनेमिनेमिजिननायक ! ॥५॥
जय जय दीक्षेति । दीक्षया नियन्तानि-वशीकृतानि अक्षाणि-हृषीकाणि इन्द्रियविषयाणि यस्मिन् स न्यक्षः सर्वसंवरात्मको भावरूपस्तद्रूपा वृत्तिः न्यक्षवृत्तिः । सा एव निर्वृतिय॑क्षवृत्तिनिर्वृतिस्तस्या वृतिर्वरणं स्वीकारो यस्य सः। अतोऽनन्तचतुष्टयित्वं सिद्धत्वे प्रसिद्धमेव । यद्वा दीक्षान्यक्षवृत्त्या निर्वृतेर्मुक्तेर्वृत्तिः-स्वीकारो यस्य सः,तस्य सम्बोधने-हे दीक्षान्यक्षवृत्तिनिर्वृतिवृते ! त्वं जय । कृता रैवतगिरिराजस्य रैवताचलस्य तीर्थतायास्तीर्थरूपस्य विश्रुतिःख्यातिर्येन सः, तस्य सम्बोधने-हे कृतरैवतगिरिराजतीर्थताविश्रुते ।