Book Title: Nemijinstuti Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ फेब्रुआरी २०११ १४५ संश्रितास्त्वत्-शरणं प्रति प्राप्ता ये सत्त्वाः-प्राणिनस्तेषां समीहितस्यमनोभिलषितफलस्य दायको यः सः, तस्य सम्बोधने-हे संश्रितसत्त्वसमीहितदायक! त्वं जय । दुर्गतिरूपो यो दवो-वनं तस्य यो लव-उच्छेदनं तत्र नेमिरिव चक्रधारा इव नेमिजिननायको यः सः, तस्य सम्बोधने हे दुर्गतिदवलवनेमिनेमिजिननायक ! ॥५॥ पञ्चभिः कुलकमिदम् ॥ सुदिनमहो मम चाऽद्य तथा सुदशा धव !, दर्शनमिह यदभत्किल मेऽप्यघिने तव । सिद्धं चिन्तितकार्यमार्य सफला जनि रजनिष्टचरीदमंदभंदकंदावनी ॥६॥ सुदिनमिति । हे धव ! – हे स्वामिन् ! अहो इति आश्चर्ये । किल इति सम्भावनायाम् । मे-ममाऽपि अघिनः-पापात्मन इह जन्मनि यत् तव दर्शनमभूत् तत् तस्मात् कारणात् मम चाऽद्यतमं सुदिनं सुदशा च वर्तते इति । हे आर्य! मम चिन्तितकार्यमपि सिद्धं जातम् । मम जनिर्जन्म उत्पत्तिरपि सफला-फलवती जाता । पुनः चरीदमंदो देशविरतिरूपो यो भन्दः, कल्पद्रुमस्तस्य यो कन्दस्तस्य अवनिरिव क्षितिरिव क्षितिर्देशविरतिरूपांऽकुरोपि अजनिष्टप्रादुरभूत् मे-मम हृत्क्षितौ । एतत् पदमशुद्धतरं यथाकथंचित् समर्थितम् । यद्वा मम बुद्धेर्मान्द्यरूपदोषेण सम्यगर्थो नाऽवभासित इत्यलम् ॥६॥ विश्वजनीन ! सदीनमिति निजदृक्सृति, कथमथ मामवमान्य भजेर्यशसोन्नतिम् । त्वत्किङ्करमवगत्य सत्यसुखसावधि, प्रतिजनि मे निजमेव देव ! दिश सन्निधिम् ॥७॥ विश्वजनीनेति । अथ इत्यनन्तरं हे विश्वजनीन ! - हे विश्वजनहितकारक! सदीनमितं सदीनतागुणयुतं निजदृक्-सृतिं त्वदृष्टिपथप्राप्त मामवमान्याऽवगणयित्वा यशसा उन्नतिं लोके प्रसिद्धतां त्वं कथं भजेः कथं प्राप्नुहि ? अथ हे देव ! मां त्वत्किङ्करं दासरूपमवगत्य भवान् ज्ञात्वा, प्रतिजनिPage Navigation
1 ... 4 5 6 7 8