Book Title: Nemijinstuti Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 7
________________ १४६ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ अत्राऽव्ययीभावत्वाद्विभक्तेलृक् बोध्यः, मुक्तिपदप्राप्तिपर्यन्तरूपे भवे भवे मे-मम मह्यं वा निजमेव-स्वकीयमेव सन्निधिं समीपतारूपं सम्यक्त्वरूपरत्नं वा त्वं दिश-देहि इत्यन्वयः ॥७॥ भूरिजनो यदरक्षि भवान् निजसदृशा, सम्प्रति माऽप्यनुप्रेक्ष्य विभो ! भव नवयशाः । किं बहुयाचनयाऽथ नाथ ! तव पार्श्वतः, स्वीयचरणशरणैकगतं कुरु मामवतः (मतः) ॥८॥ भूरिजनो यदेति । हे विभो ! - हि विश्वव्यापक ! निजसदृशा निजसमीचीनदृष्ट्या स्वकीयसद्दर्शनेन इति यावत्, भवात्-संसारात् भूरिजनो यद् भवता अरक्षि-रक्षां कृतवान् । संप्रति-इदानीं मे' मह्यं मम वा, अनुप्रेक्षित्वा इति अनुप्रेक्ष्य ईक्षदर्शनाङ्कनयोरस्माद्धातोः क्त्वास्थाने क्त्वो ल्यबिति सूत्रेण ल्यपि कृते यथेष्टरूपसिद्धिः, स्वीयसद्दर्शनं दत्त्वा त्वं नवयशा भव नूतनयशोयुक्तस्त्वं स्या इति कर्तुर्हार्दम् । __ अथेत्यनन्तरं हे नाथ ! अतः परं तव पार्श्वतः बहुयाचनया किं पर्याप्त सृतमिति किमित्यसा[व]र्थः ? स्वीयचरणयोः शरणैकगतं-शरणैकतारूपं मां त्वं कुरु, भवे भवे मम तव चरणयोरेव शरणमस्तु इत्यन्वयः ॥८॥ छन्दस्तु सममात्राख्यम् । इति स्तुतः श्रीगिरिनारमण्डनः, संसेव्यमानोऽम्बिकया निरन्तरम् । नेमीश्वरः स्तात् सततं सदङ्गिनां, चतुर्गतिभ्रान्तिहरः शिवङ्करः ॥९॥ इति श्रीनेमीश्वरस्तुतिः । संवत् १९२४रा मिति पोष-शुक्ल-९ मन्दवारे बालुचरपत्तने ॥श्रीः॥ इति स्तुत इति । इति परिसमाप्तौ, इत्थं वा अमुना प्रकारेण, श्रीगिरिनारमण्डनोऽम्बिकया देव्या निरन्तरं संसेव्यमानो यो नेमीश्वरो भगवान् मया स्तुतः स्तुतिं कृतवान्,२ स एव नेमीश्वरो द्वाविंशतितमजिननायकः सततं-निरन्तरं १. श्लोकानुसारं त्वत्र ‘मा-मामपि' इत्यनेन भाव्यम् । श्लोके वा 'सम्प्रति मेऽप्यनु०' इति परिवर्तनीयम् । २. 'स्तुतः' इत्यस्याऽर्थः 'स्तुतिकर्मतां प्रापितः' इति स्यादिति भाति ।Page Navigation
1 ... 5 6 7 8