Book Title: Nemijinstuti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ १४२ अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २ कृते यथेष्टसिद्धिस्तत्सम्बोधने - हे समुद्रविजयनरराज - शिवासुतसन्मते !! जनानां समूहो जनता, समूहे ऽर्थे तल्-प्रत्ययः । जनताया- - जनसमूहस्य जननं-जन्म तदेव जलधिः- समुद्रस्तस्य तस्मिन् वा तारणरूपा तरिरिव तरिर्यः स, तत्सम्बोधने-हे जनता-जननजलधितारणतरे ! त्वं जय । सवनं- - सावः क्षयः, षोऽन्तकर्मणि, अस्माद् भावे घञ्-प्रत्ययः । सावरूपो भावः सावभावः, तद्धितीय - ठक्-प्रत्ययः, क्षायिकभावो निश्चलभावइति यावत्, सप्तक्षये क्षायिक इति श्रुतेः । यद्वा षुप् सवैश्वर्ययोरस्मादपि घञि कृते सावभावो-बालभाव ऐश्वर्यरूपभावो वा । तत्र त्वं योगीन्द्रः सन्नपि मित्रादि प्रेरणया आयुधशालायां सहसो बलस्य लवो-लेशस्तेन जितस्तिरस्कृतो हरिर्विष्णुर्येन सः । द्वितीयपक्षेऽपि नेमेर्बलवर्णनावसरे हरिपदेन लक्षणया इन्द्रसामानिकसुरो ग्राह्यः, शेषं तथैव । एतत् सर्वमितिहासादौ प्रसिद्धमेव । तत्सम्बोधने-हे सावभाव-योगीन्द्रसहोलवजितहरे ! इति ॥१॥ जय जय जनदुर्वारमारमदगिरिपवे !, सजलजलदशितिवर्णसवर्णतनुच्छवे ! । जय जय जगति प्रमदकुमुदहिमदीधिते !, करुणारसकूपारविमोचितपशुसिते ! ॥२॥ जय जय जनदुर्वारेति । जनैर्दुःखेन वार्यते इति जनदुर्वारः, स एव मारस्याऽनङ्गस्य मदोऽहंकारः, स एव गिरिः - पर्वतस्तस्य तत्र वा समूलोन्मूलने पविरिव पविर्वज्र इव वज्रो यः सः । 'ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पवि’रित्यमरः । तस्य सम्बोधने - हे जनदुर्वारमारमदगिरिपवे ! त्वं जय । यद्वा मारश्च मदश्चेति द्वन्द्वे कृते पश्चात् बहुव्रीहिरित्यपि साधु । सजलो जलयुक्तो यो जलदो - मेघस्तस्य यो शितिवर्णः-कृष्णवर्णस्तत्सवर्णा तुल्या तनोः शरीरच्छविर्द्युतिर्यस्य सः, तस्य सम्बोधने - हे सजलदशितिवर्णसवर्णतनुच्छवे ! । जगति-संसारे प्रमदो य: सौरभ्यगुणविशिष्टः, कुमुदं सितकमले (लं) कुमुदिनीरूपं वा तद्विकाशने, हिमा दीधितिर्यस्य स हिमदीधितिश्चन्द्रश्चन्द्र इव चन्द्रो यः सः । यथा गगनस्थचन्द्रः कमलवनं प्रकाशयति तथा त्वं तु

Loading...

Page Navigation
1 2 3 4 5 6 7 8