________________
तद्विकारभावाभावाननुविधानात्, एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत्, स्यादेतद्अयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि दोषा देहस्य वैगुण्यमाधाय निवृत्ताः तथापि न तत्कृतस्य वैगुयस्य निवृत्तिः, न हि दहनकृतो विकारः काष्ठे दहननिवृत्तौ निवर्त्तमानो दृष्टः, तदयुक्तम्, इह हि किञ्चित् क्वचि |दनिवर्त्त्यविकारारम्भकं यथा वह्निः काष्ठे, न हि श्यामतामात्रमपि वह्निना कृतं काष्ठे वह्निनिवृत्तौ निवर्त्तते, किञ्चित्पुनः क्वचित् निवर्त्त्यविकारारम्भकं यथा स एवाभिः सुवर्णे, तथाहि - अभिकृता सुवर्णे द्रवताऽग्निनिवृत्तौ निवर्त्तते, तथा वाय्वादयो दोषा निवर्त्त्यविकारारम्भकाः, चिकित्साप्रयोगदर्शनाद्, यदि पुनरनिवर्त्स्यविकारारम्भका भवेयुः तर्हि न तद्विकारनिवर्त्तनाय चिकित्सा विधीयेत, वैफल्यप्रसङ्गात् न च वाच्यम् - मरणात् प्राग् दोषा निवर्त्यविकारारम्भका मरणकाले त्वनिवर्त्त्यविकारारम्भका इति, एकस्यैकत्रैव निवर्त्त्यानिवत्र्त्स्यविकारारम्भकत्वायोगात्, न हि एकमेव तत्रैव निवर्त्स्यविकारारम्भकम निवर्त्स्यविकारम्भकं च भवितुमर्हति तथाऽदर्शनात्, ननु द्विविधो हि व्याधिः- साध्योऽसाध्यश्च तत्र साध्यो निवर्त्यखभावः, तमेवाधिकृत्य चिकित्सा फलवती, असाध्योनिवर्त्तनीयः, न च साध्यासाध्यभेदेन व्याधिद्वैविध्यमप्रतीतम्, सकललोकप्रसिद्धत्वाद्, व्याधिश्च दोषवैषम्यकृतः, ततः कथं दोषाणां निवर्त्त्यानिवर्त्स्यविकारारम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेना साध्यव्या घेरेवानुपपत्तेः, तथाहि - असाध्यता व्याधेः क्वचिदायुःक्षयात्, यतः तस्मिन्नेव व्याधी समानौषधवैद्य सम्पर्केऽपि कश्चिन्नियते
Jain Education International
For Personal & Private Use Only
१३
www.jainelibrary.org