Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 6
________________ स्म । स्वजनैः परिवेष्टितां शोकाधीनां जननीं तु किञ्चिदपि प्रष्टुं शक्यं नाऽऽसीत् । ततस्तेन स्वेन सह स्थितो युवा पृष्टः । पञ्चषाणि प्रश्नोत्तराणि कृतानि । किन्तु पश्चादपि तस्य मनसि सन्तोषोनाऽभूत् । द्वि-त्रिदिनपर्यन्तं गृहे ग्रामजनानां स्वजनानां च गमनागमनं करुणदृश्यानि च सञ्जातानि । तन्मध्ये भाईचन्दकुमारस्य जिज्ञासा बलीयसी सञ्जाता। अवसरमवलोक्य जिज्ञासुना तेन माता पृष्टा - "मातः ! अहं जानामि यत् पितरं ग्रामजना बहिर्ग्रामं नीतवन्तः सन्ति । किन्तु ततः स क्व गमिष्यति ? तन्नाऽहं जानामि । " शोकग्रस्ता व्यथिताऽपि माता तस्य प्रकृष्टजिज्ञासां धर्मार्थं वैराग्यार्थं च परिवर्तितवती । प्रीतिस्निग्धया तयाऽतिसुगमभाषया भाईंचन्दकुमारः प्रतिबोधितः - " वत्स! आत्मा यादृशानि कर्माणि कुर्यात्, तादृशं स्थानं प्राप्नुयात् । प्रशस्तकार्याणि (पुण्यकार्याणि ) कुर्यात्, तदा वरं सुखदं स्थानं प्राप्नुयात् । अप्रशस्तकार्याणि (पापकार्याणि कुर्यात् तदा प्रशस्तं दुःखदं स्थानं प्राप्नुयात् । तव पिता धर्मं करोति स्म, ततः समीचीनं स्थानं प्राप्स्यति। वयमपि यदि धर्मं कुर्याम, तदैव समीचीनं स्थानं प्राप्नुयाम यो धर्ममाद्रियेत स सद्गतिं गच्छेत्, अधर्मं (पापं ) च समाचरेत् स दुर्गतिं गच्छेत् । " जनन्या वात्सल्यपूर्ण - संवेगनिर्झरत्प्रेरणया भाईचन्दकुमारस्य बालमानसे धर्मप्रतिष्ठा तदानीमेतादृशी बलीयसी बभूव यया तस्य समग्रं जीवितं धर्ममयं सञ्जातम् । तस्य नाम-स्थान- कार्येषु सर्वत्र धर्मध्वजोऽनवरत: स्पन्दमान आसीत् । रे! सम्पूर्णजीवनावलोकनेन किम् ? गुरुवराणां त्वेतद् बाल्यजीवनमात्रं वयं पश्यामः, तदापि सूक्तिरियं समागत्य मनोमन्दिरे संतिष्ठेत यथा wagen बाला अपि रवेः पादाः पतन्त्युपरि भूभृताम्। तेजसा सह जातानां वयः कुत्रोपयुज्यते ।।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 215