Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 323
________________ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके ममीकाररहिताः । ‘निरहङ्काराः ' निर्गताहङ्कृतयः । ' क्षान्ताः ' क्षमावन्तः । ' दान्ताः' नोइन्द्रियदमेन । 'जितेन्द्रियाः ' निगृहीतस्पर्शनादीन्द्रियाः । इति श्लोकचतुष्टयार्थः । । ९०-९३ । । विशेषतः साधुमाहात्म्यं ख्यापयन् श्लोकमाह ३०० अहो ! धण्णो हु सो देसो पुरं राया गिही यिहं । जं तुट्ठि मण्णमाणा णं विहरंती सुसाहुणो ।। ९४ ।। 'अहो' इत्यतिशये, 'धन्यः' पुण्यभाक्, स 'देश : ' जनपदः, 'पुरं' नगरम्, 'राजा' नृपतिः, 'गृही' गृहस्थः, 'गृहं' निशान्तम्, 'जं' ति विभक्तिव्यत्ययाद् यत्र, ' तुष्टिं' हर्षम् 'मन्यमानानां (? मानाः ) ' प्रतिपद्यमानानाम् (? मानाः ), [?णं इति वाक्यालङ्कारे], 'विहरन्ति' परिभ्रमन्ति, 'सुसाधवः' सद्यतय इति श्लोकार्थः । ।९४।। एवंगुणयुक्तानां च साधूनां यो वसतिं प्रयच्छति तस्य फलं श्लोकेनाऽऽह— सेज्जं जो देइ साहूणं तरे संसारसायरं । सेज्जायरो अओ वुत्तो सिद्धो सव्वण्णुसासणे ।। ९५ ।। 'शय्यां' वसतिम्, यो ' ददाति' प्रयच्छति, 'साधुभ्यः' यतिभ्यः, 'तरे' त्ति तरति, 'संसारसागरं' भवसमुद्रम्, शय्यातरोऽतो व्युक्तः सिद्धः सर्वज्ञशासने- 'शय्यया तरति संसारसागरम् ' इत्येवं 'सिद्धः ' व्युत्पत्त्या निष्पादितः, 'व्युक्तः' विशेषेणोक्तः 'जिनशासने' निशीथादौ । अथवा सिद्ध इव सिद्धो व्युक्तः, भाविनि भूतवदुपचारात् प्रत्यासन्नसिद्धिगामीत्यभिप्राय इति श्लोकार्थ: ।। ९५ । विशिष्टपुण्यहेतुमेव वसतिदातुः श्लोकेन प्रतिपादयति चिट्ठताणं जओ तत्थ वत्था - ऽऽहार - तवाइणो । सम्मं केइ पवज्जंति, जिणदिक्खं पि केइ वि ।। ९६ ।। 'तिष्ठतां' निवसताम्, 'यतः ' यस्मात्, वस्त्रा - ऽऽहार - तपआदीनि आदिशब्दात् पात्रदण्डकादिग्रहः, साधूनामुत्पद्यन्त इति गम्यम् । 'सम्म' ति सम्यक्त्वम्, केचित् 'पवज्जंति' प्रतिपद्यन्ते ‘जिनदीक्षामपि’ सर्व-देशविरतिरूपां केचनाऽपि प्रतिपद्यन्ते इति श्लोकार्थः । । ९६ ।। तस्मात् — सिज्जादाणप्पभावेणं देवाणं माणुसाण य । पहाणं संपया फुल्लं फलं निव्वाणमुत्तमं । । ९७ ।। विभक्तिव्यत्ययात् शय्यादानप्रभावतो देवानां मानुषाणां च प्रधानं सम्पत् पुष्पम्, फलं तु १. ला० मनुष्याणां ॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326