Book Title: Mukundanandbhan Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab Publisher: Nirnaysagar Press View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पिच । Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | श्रीकाशीपतिकविप्रणीतो मुकुन्दानन्दभाणः । वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् । अमन्दानन्दसंदोहबन्धुरं सिन्धुराननम् ॥ १ ॥ कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसंगमसौभगं च सततं मत्प्रेयसीनां पुरः । प्राप्तुं कोऽयमितीययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः ॥ २ ॥ चन्द्रे शीतलयत्यलीकनयनं शंभो: सुधाशीकरैविष्वग्व्याकुलयत्सु संयमघनान्कान्तादृगन्तेषु च । लीलायै परमैक्षवं धनुरिपून्विभ्रत्प्रसूनात्मनः स्वच्छन्दं रतिवल्लभो विजयते त्रैलोक्यवीरः स्मरः ॥ ३ ॥ (नान्द्यन्ते) सूत्रधारः - (पुरोऽवलोक्य । सप्रमोदम् ।) अद्य खलु फलितमामूलचूडमस्मरायपुरातनपुण्यकल्पलताभिः । यतः, इत एव नूतन पुरपरिसरालंकार भद्र १. कर्वेर्देशकालौ न ज्ञायेते. भाति चायं कश्चन द्रविड:, नातिप्राचीनश्व. २. एतद्भामुद्रणावसरे पुस्तकत्रयमस्माभिरधिगतम् तत्र प्रथमं पुण्यपत्तने 'काव्येतिहाससंग्रह'मासिकपत्रे मुद्रितं क-संज्ञकम्, द्वितीयं जयपुरराजगुरु भट्टलक्ष्मी दत्तसूनुश्रीदत्तसंग्रहात्प्राप्तं १८५३ मिते विक्रमाब्दे काश्यां लिखितं ख- संज्ञकम्, तृतीयमपि गमेवासमाप्तमशुद्धं च ग-संज्ञकम्. ३. क-पुस्तके प्रारम्भे 'वन्दामहे महेशानचण्डकोडखण्डनम् । जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥' अयं श्लोकोऽधिकोऽस्ति. ४. :' ख. ५. 'अपि च' क-पुस्तके नास्ति. ६. 'तरुमूलचूडं' ख. ७. 'पुण्य' ख-गकोर्नास्ति ८ 'परिषदा' ख, 'परिसदा' ग. For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 368