Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 22
________________ मदन० 564 चरित्रम् ॥२०॥ ॥२०॥ स्वप्ने शैलराजोपम ऐरावणकुंभी दृष्टः, स च मदीयं रोग दूरीचकार. यतः-देवता यतयो गावः । पितरो लिंगिनो नृपाः ॥ यद्वदंति नरं स्वप्ने । तत्तथैव भविष्यति ॥ १ ॥ एवं तं ऐरावणं पुनः पुना - यतोऽस्य नमिमुनेर्जातिस्मृतिरभूत् , यथा पूर्वभवे मया श्रामण्यं पालितं, ततः पंचत्वं प्राप्य प्राणते देवलोकेऽहं सुरोऽभवं. ततः स नमिः स्वं पुत्रं राज्येऽभिषिच्य शासनदेवतादत्तरजोहरणः संयमं प्रतिपन्नवान् . तदा शक्रो द्विजवेषमादाय तं परीक्षितुमाययो. स द्विजस्तं नमिराजर्षिप्रत्यवदत्, भो राजस्त्वया सांतःपुरं राज्यं तृणवत् त्यक्त्वा यत्संयमो गृहीतस्तन्न सुंदरं कृतं, त्वया जीवदयापालनायैव दीक्षा गृहीतास्ति, परं त्वद्व्रतग्रहणत एतास्तेंतःपुरस्त्रियो विलापान् कुर्वति, अतस्तवेदं संयमग्रहणं निष्फलमेव. तत् श्रुत्वा नमिराजर्षिरुवाच, भो द्विज! मम व्रतग्रहणं तासां दुःखकारणं न, किंतु लोके स्वस्वार्थहानिरेव दुःखस्य कारणं, ततोऽहमपि स्वार्थमेव साधयामि, परजल्पनेन किं ? द्विज आह, भो राजर्षे! अधुना ते गृहाणि अंतःपुराणि च ज्वलमानानि संति, त्वं तानि किमुपेक्षसे? | उपेक्षया च लोके तवापवादो भवति, यत आश्रितस्योपेक्षणं पापं, त्वं तु चतुरोऽसि, अतो विचारय ? 5755-5

Loading...

Page Navigation
1 ... 20 21 22 23 24