Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 21
________________ COC46 मदन० ॥१९॥ चंदनघर्षणस्वरूपं प्रोक्तं. राज्ञादिष्टमेतासां पंचशतप्रियाणां हस्तेभ्य एकैकं वलयमुत्तारयत ? तत। एकैकस्मिन् वलये उत्तारिते राज्ञो मनाक् सुखं बभूव. एवं क्रमात् सर्वेषु वलयेषूत्तारितेषु राजा विशेष चरित्रम् सुखमन्वभवत्, एवं ताभिरेकैकमेव वलयं मंगलार्थमेव निजहस्तेषु स्थापितं. तदा राज्ञा पृष्टं, किम- ॥१९॥ धुना राझ्यश्चंदनं न घर्षयंति ? यत् सांप्रतं तासां वलयशब्दो न श्रूयते. तदा मंत्रिणो नृपाय वलयोत्तारणस्वरूपं जगुः. तत् श्रुत्वा संजातवैराग्यो राजा दध्यौ, अहो! भूरिसंयोगः संसारे दुःखायैव भवति, यथा भूरिभिः कंकणशब्दैर्दुःखमभृत् , न तथा स्तोकैरेव तैः, एवमेकत्वे महत्सुखं, यतः-कं- | कर्ण रिभिर्दुःखं । स्वल्पैः स्वल्पतरैः सुखं ॥ यादवस्यैव दृष्टांता-देकाकित्वे महासुखं ॥ १ ॥ यथा यथा महत्तंत्रं । विस्तरश्च यथा यथा ॥ तथा तथा मह दुःखं । सुखं नैव तथा तथा ॥२॥ क्लेशाय विस्तराः सर्वे । संक्षेपास्तु सुखावहाः ॥ परार्थ विस्तराः सर्वे । त्यागमात्महितं विदुः ॥३॥ अथ यदायं मदीयो दाहज्वरः प्रशमं यास्यति, तदा मयावश्यं दीक्षा ग्राह्या. इति ध्यात्वा यावत्स नमिनृपः सुप्तस्तावत्तस्य दाहज्वरः प्रशशाम. अथ प्रातर्वायनादेर्जागरितो भूपो दथ्यौ, अहो ! अद्य मया -57-ॐॐॐ

Loading...

Page Navigation
1 ... 19 20 21 22 23 24