Book Title: Laghustotra Ratnakar Author(s): Hemendrasagar Publisher: Buddhisagarsuri Jain Gyanmandir View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना - पुंसामेकमपिस्तोत्रं, स्वर्गापवर्गसम्पदम् । . जनयत्येव लोकेस्मिन्, जिनानां पावनं परम् ॥१॥ श्रीमद्विधादेव्युपासकानां भूतार्थवादिनामनल्पतत्ववेदिनामनपेक्षिताऽनहवादानां सहृदयहृदयानां विद्वद्वराणामेतन्नाऽविदितम् , यत्स्तोत्ररत्नमालिकाग्रथनमनहारि, सद्भक्तिप्रधानानां विश्वस्तचेतसां पिपठिषणां वाचकानां संस्मर्तृणाञ्च । यद्यपि श्रीमद्भद्रबाहुप्रभृतिभिः पूर्वाचायविविधसिद्धिप्रदानि बहूनि स्तोत्राणि नैकार्थाऽलङ्कारघटितानि रचितानि विद्यन्ते जैनशासने, तथाप्येष ' लघुस्तोत्ररत्नाकरः' योगनिष्ठजैनाचार्यश्रीमद्बुद्धिसागरसूरीश्वरशिष्यरत्नश्रीमद-अजितसागरसूरिभिः प्रणो. तस्तस्याऽयं प्रथमो भागः सरलभाषार्थः सम्यग्वैराग्यभक्तिरसो. पेतः प्रकटीकृतः। यस्मिन् जिनेन्द्राणांगण पृच्छ्रीमदगौतमस्वामिनः, आचार्यश्री हरिभद्रसूरिश्रीमद्धेमचन्द्राचार्यनिजगुरुप्रभृतीनां महामुनीनाञ्च स्तवस्तुतिस्तोत्राष्टकानि च सन्टब्धानि । स्तवाः स्तुतयः स्तोत्राण्यष्टकानि चाभिन्नोर्था एव व्युत्पत्या रूढिव शाच्च । कश्चिद्विशेषोऽप्येतेषां विद्यते-तथाचोत्तराध्ययनवृहदवृत्तौ " तत्र For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 270