Book Title: Laghustotra Ratnakar Author(s): Hemendrasagar Publisher: Buddhisagarsuri Jain Gyanmandir View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्मिन् ग्रन्थे पद्मावतीदेव्या:-सरस्वत्याः-घण्टाकर्णवीरस्य च सम्यक्त्वधारित्वात् प्राचीनाचार्यैस्तदाराधनसंमतत्त्वा व सबीजमन्त्रगर्भितानि तेषां स्तोत्राणि संगृहीतानि । स्वविरचितस्तोत्राष्टकानिकियन्ति जिज्ञासुजनप्रेरणया विनिवेशितानि च । कियन्ति च प्राचीनाऽऽचार्यरचितानि संगृहीतान्यत्र । अनेन सूरिणा विनिमितान्यपराणि स्तोत्राणि सबीजमन्त्रकाणि, तथैव प्राचीनसूरिपुङ्गवप्रणीतान्यमुद्रितानि संगृहीतानि सन्ति तान्यपि यथोपयोगं यथासमयञ्च प्रकटयिष्यन्ते । केषुचित्स्तोत्रेषु संवत्सरादिनामोल्लेखा विहितः कुत्रचिदप्रदर्शितश्चैव, ग्रन्थकर्ता स्वतीर्थ्यश्रीमदमृतसागरस्य स्मृतये “ सुधासिंधु"रिति काव्यंविरचितम् । तदपि संगृहीतम् । ग्रन्थप्रणेतुरस्य विद्वत्त्वं कवित्व शक्तिश्चैतद्ग्रन्थावलोकनैव ज्ञास्यते वाचकवरैः । इत्याशास्ते । वि. सं. १९९२ बु.सं. ११ मार्गशीर्ष शुक्लपञ्चम्याम् मु. विद्यापुर (वीजापुर) 0 विद्याशाला मनिहेमेन्द्रसागर! For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 270