________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना
-
पुंसामेकमपिस्तोत्रं, स्वर्गापवर्गसम्पदम् । . जनयत्येव लोकेस्मिन्, जिनानां पावनं परम् ॥१॥
श्रीमद्विधादेव्युपासकानां भूतार्थवादिनामनल्पतत्ववेदिनामनपेक्षिताऽनहवादानां सहृदयहृदयानां विद्वद्वराणामेतन्नाऽविदितम् , यत्स्तोत्ररत्नमालिकाग्रथनमनहारि, सद्भक्तिप्रधानानां विश्वस्तचेतसां पिपठिषणां वाचकानां संस्मर्तृणाञ्च । यद्यपि श्रीमद्भद्रबाहुप्रभृतिभिः पूर्वाचायविविधसिद्धिप्रदानि बहूनि स्तोत्राणि नैकार्थाऽलङ्कारघटितानि रचितानि विद्यन्ते जैनशासने, तथाप्येष ' लघुस्तोत्ररत्नाकरः' योगनिष्ठजैनाचार्यश्रीमद्बुद्धिसागरसूरीश्वरशिष्यरत्नश्रीमद-अजितसागरसूरिभिः प्रणो. तस्तस्याऽयं प्रथमो भागः सरलभाषार्थः सम्यग्वैराग्यभक्तिरसो. पेतः प्रकटीकृतः। यस्मिन् जिनेन्द्राणांगण पृच्छ्रीमदगौतमस्वामिनः, आचार्यश्री हरिभद्रसूरिश्रीमद्धेमचन्द्राचार्यनिजगुरुप्रभृतीनां महामुनीनाञ्च स्तवस्तुतिस्तोत्राष्टकानि च सन्टब्धानि । स्तवाः स्तुतयः स्तोत्राण्यष्टकानि चाभिन्नोर्था एव व्युत्पत्या रूढिव शाच्च । कश्चिद्विशेषोऽप्येतेषां विद्यते-तथाचोत्तराध्ययनवृहदवृत्तौ " तत्र
For Private And Personal Use Only