________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवा:-देवेन्द्रस्तवादयः, स्तुतयः- एकादिसप्तश्लोकान्ताः, यत उक्तम्-एगदुगति सिलोका (थुइओ) अन्नेसि जाव हुंति सत्तेव । देविदत्थवमादी तेण परं थुत्तआ होंति " । व्यवहारभाष्ये च उ० ७ गाथा १८३ ।
___ “एगद्गति सलोया, थुतिओ अन्नेसि होइ जा सत्त । देवेंदत्थयमादो तेणं तु परं थया होइ”॥ श्रीमदमलयगिरिकृतवृत्तौएक श्लोका-द्विश्लोका-त्रिश्लोका वा स्तुतिर्भवति, परतश्चतु: श्लोकादिकः स्तवः। अन्येषामाचार्याणां मतेनैकश्लोकादिसप्तश्लोकपर्यन्ता स्तुतिः । ततः परमष्टश्लोकादिकाः स्तवाः । यथा देवेन्द्रस्तवादयः । आदिशब्दात्कर्मस्तवादिपरिग्रहः" "गंभीरमहुरसहं, महुरसह, महत्थजुत्तं हवइ थुत्त ॥५८॥" (देवेन्द्रसूरिप्रणीतचैत्यवन्दनभाष्ये) "सकयभासाबद्धो, गंभीरस्थो थवोत्ति विक्खाओ । पाययभासाबद्धं, थोत्तं विविहेहि छंदेहिं ॥८५१॥" ( चेइयचंदणभाष्ये श्रीशान्तिसूरिः) अद्यावधि मुद्रितामुद्रितस्तोत्रादिषु प्रायः पूर्वोक्तलक्षणानि न घटन्ते, इति नासमञ्जसम् । चूलिकास्तुतिस्तोत्रापेक्षया स्यादियं रूढिः। सर्वेष्वपि प्राचीनतरा: कथ्यन्तेऽहनिशं जैनशासने प्रतिक्रमणादिकक्रियाविशेषेषु दण्डकरूपाः स्तवाः पञ्च-तद्यथा
" सक्कत्था ओ य चेइय-थओ य चउविसईथओ चेव । सुत्तत्थओ य सित्थत्थओ य नामाई दंडाण | "
एतेषामेवावश्यकवृत्त्युत्तराध्ययनादौ कुत्रचित् स्तवत्त्वं क्वचिच्च स्तुतित्वं संप्राप्यते तद् व्युत्पत्त्यनुरोधात्, किवा गोबलीवदन्यायमवलम्ब्य सामान्यत ।
For Private And Personal Use Only