Book Title: Laghu Trishashti Shalaka Purush Charitam
Author(s): Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 10
________________ अनुमोदनीयः प्रयासः / - पूज्याचार्यश्रीविजयदेवसूरीश्वरशिष्यः विजयहेमचन्द्रसूरिः / को न हि नाम विपश्चिदाकर्येदं मनस्यामोदमादध्यात्, यदधुना विविधविषयकलघुवृहदनेकग्रन्थसूत्रणसूत्रधार-पाठकप्रवर-श्रीमन्मेघविजयगणिविरचितः लघुत्रिषष्टिशलाका पुरुषचरिताऽऽवयो ग्रन्थः प्राकाश्यं नीयते / / कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यभगवद्भिः विरचितः त्रिषष्टिशलाकापुरुषचरिताऽऽख्यो ग्रन्थ: जैनसंस्कृतसाहित्ये शिरोमणिभावं बिभर्ति / दशपर्वात्मकेऽस्मिन् महाग्रन्थे श्रीतीर्थकर-चक्रवर्ति-बलदेव-वासुदेव-प्रतिवासुदेवस्वरूपमहापुरुषाणां नियतरूपेणैकस्मिन्नवसर्पिणीरूपे तथोपसर्पिणीरूपे च काले जन्म बिभ्राणानां चरितानि वर्णयद्भिः प्रभूताश्चर्यकृवृत्तान्तानि, शब्दालाङ्काराः, अर्थालङ्काराः, तत्तद्देशनगरग्रामोद्यानादिवर्णनानि तथा च चतुर्विशति तीर्थकराणां देशनासु आहेतदर्शनमौलिकतात्त्विकस्वरूपाणि च वर्णितानि सन्ति / अयमेक एव ग्रन्थः कलिकालसर्वज्ञानां प्रकाण्डपाण्डित्यस्याथ चापूर्वग्रन्थरचनाकौशलस्य प्रख्यापने पर्याप्तः / कथासाहित्ये आकरसहशस्यातिबृहतोऽस्य ग्रन्थस्याध्ययनाध्यापनयोः समयाभावमिषेणालस्यं विदधतां संक्षेपरुचीनामधुनातनतुल्यजनानामनुग्रहकरणार्थमेव संक्षिप्तरूपेण ग्रन्थोऽयं विनिर्मितः पाठकप्रवरैः। :कदा स्वजीवनस्य प्रारंभमध्यान्तिमरूपविभागेषु कस्मिन् विभागे ग्रन्थोऽयं रचितः इत्यस्य स्पष्टोल्लेखो नैव लभ्यते तथापि ग्रन्थरचनाशैल्यवलोकनेनावगम्यते यद् ग्रन्थोऽयं नहि निजपरिपक्वकालेऽनेन विद्वन्मूर्धन्येन विनिर्ममे, अपि तु प्रारम्भकाले एव / अत ऐवैतत्कर्तृकान्यग्रन्थगतवैदुष्य-रचनाकौशल्य-प्रयोगवैविध्यादिगुणवैशिष्ट्यं विद्वज्जनमनस्तोषकर ग्रन्थेऽस्मिन्न दृष्टिपथमवतरति / तथापि प्रयासोऽयमेवश्यमेवानुकरणीयः प्रशंसाहेश्चेति नास्त्यत्र शङ्कालेशः। __यदा तदा अभ्यासिमुनिवरैरथवा विद्भिः सह वार्ताप्रसङ्गे ग्रन्थस्यास्य चर्चा तु असकृदेव विहिताऽभूत् , तत आरभ्य मनसि प्रन्थस्यास्य कृते सूक्ष्ममप्याकर्षणमुदितमासीत्-किन्तु नहि तादृशोऽवसरः समासादितः। अनवरताध्ययनलेखनवाचनादिसमर्पितयोगत्रितयस्य पंन्यास श्रीप्रद्युम्नविजयगणिनः सत्प्रयासेन यथामति संशोधनपुरस्कार प्रन्थोऽयं प्रकाश्यते / विद्वांस एतद्ध्ययनाध्यापनाभ्यां मूलत्रिषष्टिशलाकापुरुषचरितपठनपाठनयोः सरुचयो भवन्त्विति आशास्यते // वि. सं. 2048 आ. सु. 2 जामनगरम् //

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 376