Book Title: Kumarpal Pratibodh
Author(s): Somprabhacharya, Jinvijay
Publisher: Central Library

View full book text
Previous | Next

Page 552
________________ प्रस्तावः दशार्णभद्र-कथा । गजस्य नमतो मग्ने तस्मिन्नग्रपदे यतः। गजाग्रपदकः ख्यातः स दशार्णगिरिस्ततः ॥ दृष्ट्वा दशार्णभद्रस्तं स्वःपते ऋद्धिमद्भुताम् । दध्यौ हा ! ऋद्धिरिन्द्रार्द्धलक्षांशेनापि नास्ति मे ॥ तत्कूपभेकतुल्योहमृद्धिगर्व मुधा व्यधाम् । इयं हि मत्तवामाक्षी लोचना बत चंचला ॥ अनेकलेशसाध्यासौ मुखमात्रसुखावहा । खलमानुषमैत्रीव परिणामेऽतिदारुणा ॥ धिगृद्धिं गृद्धिमन्तोऽस्यां यजीवा यान्ति दुर्गतिम् । यत्कर्णत्रोटनायालं सुवर्णेनापि तेन किम् ॥ इत्यालोच्य परित्यज्य राज्यं तृणमिव क्षणात् । दीक्षा दशार्णभद्रेण जगृहे जिनसन्निधौ ॥ नत्वा शक्रस्तमाचष्टे धन्योऽसि ध्रु वचो कृथाः। अहं हि महतीमृद्धिं त्वां जिगीषुरदर्शयम् ॥ त्वं तु सर्व परित्यज्य श्रीवीरं वन्दसे यथा । सा व्रतर्द्धिः कुतो मेऽस्ति ततो मां जितवानसि ॥ इति विषयविरक्तचित्तवृत्ति विरचितवीरजिनोपदिष्टकृत्यः । दशविधयतिधर्मकर्मवान् सनभजत धन्यदशां दशार्णभद्रः ॥ इति दशार्णभद्रकथा । एवं कुर्वन्नहोरात्रकृत्यानि परमार्हतः । कुमारपालदेवोऽयं राज्यं पालयति क्षितौ ॥ नृपस्य जीवाभयदानडिण्डिमैमहीतले नृत्यति कीर्तिनर्तकी । ....................................... ॥ युतासवादीनि नृणां निषेधा दिहैव सप्तव्यसनानि भूपः। दुष्कर्मतो दुर्गतिसंभवानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564