Book Title: Kumarpal Pratibodh
Author(s): Somprabhacharya, Jinvijay
Publisher: Central Library

View full book text
Previous | Next

Page 547
________________ कुमारपालप्रतिबोधे गृहीत्वा संयमं कृत्वा तपस्तीव्रं ययौ दीवम् ॥ ११९ ॥ जिनानर्च्चन्नमत्साधून कृपया पालयन् महीम् । मुक्तावल्या समं क्रीडन्नन्दनो राज्यमन्वशात् ॥ १२० ॥ न सिद्धाः पूर्वजानां ये नृपास्तेऽपि वशं ययुः । नन्दनस्य विना यत्नं नमस्कारप्रभावतः ॥ १२१ ॥ अथ तत्रावधिज्ञानी चन्दनो गुरुरागमत् । देव्या सार्द्धं नृपो भ [ ॥ १२२ ॥ 'नो बभूव वां ( ? ) । पूर्वाभ्यासान्नृपोऽवादीत्कथं गुरुरभाषत ॥ १२३ ॥ इहैवासीत् पुरोधाने मिथुनं शुकपक्षिणोः । तत्कदाचिन्मुनिं दृष्ट्वा प्रतिमास्थं मुदं ययौ ॥ १२४ ॥ मुनिर्विज्ञाय तच्चित्तं कृपालुस्तदपाठयत् । परमेष्ठिनमस्कारं तच्च तं नित्यमस्मरत् ॥ १२५ ॥ शुको मृत्वा भवान् जज्ञे राजन्देवी शुकी त्वियम् । [ ॥ १२६ ॥ ] स्मृ नन्दनञ्चन्दनाचार्य पार्श्वे सम्यक्त्वमग्रहीत् । देव्या सार्द्धं प्रपेदे च क्रमेण द्वादशव्रतीम् ॥ १२७ ॥ इति नमस्कृतिमन्त्रफलं विदन्नुभयजन्मभवं प्रियया समम् । नरपतिनितरां कृततत्स्मृतिस्त्रिदिवमोक्षसुखानि च लप्स्यते ॥ १२८॥ किश्चैतज्जगति ख्यातं भृगुकच्छपुरे पुरा । मुनिदत्तं नमस्कारं स्मृत्वा शकुनिका मृता ॥ १२९ ॥ सिंहलद्वीपभूभर्तुः पुत्री जाता सुदर्शना । ४७० श्रावकोक्तं नमस्कारं श्रुत्वा प्राग्जन्म साऽस्मरत् ॥ १३० ॥ आगत्य भृगुकच्छे सा चैत्यं श्रीसुव्रतप्रभोः । अकारयच्छकुनिकाविहारं 'ताम्बरम् ॥ १३१ ॥ तत्र गत्वा समं पूज्यैर्जिनं नत्वा मयाऽम्बडः । दण्डनाथः समादिष्टस्तं विहारं नवं व्यधात् ॥ १३२ ॥ इति नमस्कारे नन्दन - कथा ॥ Jain Education International For Private & Personal Use Only [ पंचम www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564