Book Title: Jinmurti Pooja Sarddhashatakam
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ संस्कृतौ चैत्यानां मन्दिराणां मूर्तीनाश्च प्राधान्यमासीत । श्रीकश्मीरप्रदेशात् कन्याकुमारीपर्यन्तं सर्वेषु ग्रामेषु नगरेषु च हिन्दु - जैन-बौद्धानां स्थापत्य - शिल्पानां नव्यानि भव्यानि मन्दिराणि सन्ति । मन्दिराणां निर्माणानि अतीव प्राचीनानि सन्ति । समये-समये पुरातन विभागेन भग्नशेषाणां भूगर्भाणाञ्च मन्दिराणां मूर्तीनाञ्च सत्ता प्रमाणी क्रियतेऽनुदिनम् । श्री जैनागमशास्त्रेषु जैनेतरवेद-पुराणादि-ग्रन्थेषु च बहुतराणि मूर्तिपूजायाः प्राचीनतायाः प्रमाणानि दरीदृश्यन्ते । तदनु शास्त्रेषु साहित्य-काव्येषु विविध प्रबन्धेषु च ' मूर्तिपूजापद्धतिः' विशेषतः प्रमाणिता । अनाद्यनन्तश्चायं विश्वोऽक्षराकृतिमयः । सर्वज्ञ विभु श्री जिनेश्वर तीर्थङ्करभगवद्भिरर्थरूपेण भाषिताः श्रुतकेवलि श्रीगणधर भगवद्भिः सूत्ररूपेण गुम्फिताश्च परम पवित्राः श्री जिनागमा: - जैनागमाः शास्त्राणि चाक्षरमयापि तथैव वीतरागदेवानां श्री जिनेश्वराणां मूर्त्तयः, प्रतिमा: प्रकृतिमयानि । तयोर्द्वयोः श्री जिनागमप्रतिमयोश्चानन्य भावैरनुपमाराधनाभिः उपासनाभिरहनिशमवश्यं सेवनीये । द्वयो मध्ये एकतरस्यापि उपेक्षा निन्दा कर्मबन्धकरी । अनयोर्मध्ये एकस्यापि परित्यागेन ( ५ ) -

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 206