Book Title: Jinmurti Pooja Sarddhashatakam
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 7
________________ प्रात्म-निवेदनम् सुविदितचरमेतद् यन्मानवेषु धर्मप्राधान्यमेव तान व्यवच्छेदयति पशुभ्यः । सत्यञ्चैतद् विविधाचारविचारवादव्याकुले विश्वस्मिन् समेषामन्तःकरणेषु सद्भावाविर्भावपुरस्सरं विश्वहितं विश्वबन्धुत्वञ्च धर्ममन्तराने केनापि तत्त्वेन समुपस्थापयितुं शक्यते । धर्मस्य विविध विवेचने सत्यपि 'अहिंसा-सत्याऽस्तेय-ब्रह्मचर्याऽपरिग्रहाः' इति विश्वजनीनतामाप्नुवन्ति । एते महाव्रता एवं विश्वधर्माधाराः सन्तीति विषये न खलु विसंवादः । धर्ममाचरता मनुष्येण स्वकीयस्याराध्य-देवस्य पाराधना सगुण रूपेण कर्त्तव्या, अथवा निर्गुणरूपेणेति प्रश्नोऽयमुदति ? उभयविधो मार्गो निसर्गोज्ज्वलः किन्तु मानवानां चित्तैकाग्रता साधनमन्तरा नासम्भाविनी । अन्यच्च सरलेन सरसेन सगुणमार्गेण यदि सौकर्यं स्यात् तदा को नाम मन्दमतिः कठिनेन मार्गेण प्रयत्नशील: स्यात । सितशर्करया चेद् रोगनिवृत्ति स्तदा कः खलु कटुकौषधिशमनीयमुपायमाश्रयेत । ___ अतः सगुणोपासनामूत्तिपूजा-पद्धति श्च सकलेऽपि संसारे उररीक्रियते जनैः । प्रामाणिकमेतद् यत् भारतीय ( ४ )

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 206