________________
प्रात्म-निवेदनम्
सुविदितचरमेतद् यन्मानवेषु धर्मप्राधान्यमेव तान व्यवच्छेदयति पशुभ्यः । सत्यञ्चैतद् विविधाचारविचारवादव्याकुले विश्वस्मिन् समेषामन्तःकरणेषु सद्भावाविर्भावपुरस्सरं विश्वहितं विश्वबन्धुत्वञ्च धर्ममन्तराने केनापि तत्त्वेन समुपस्थापयितुं शक्यते । धर्मस्य विविध विवेचने सत्यपि 'अहिंसा-सत्याऽस्तेय-ब्रह्मचर्याऽपरिग्रहाः' इति विश्वजनीनतामाप्नुवन्ति । एते महाव्रता एवं विश्वधर्माधाराः सन्तीति विषये न खलु विसंवादः ।
धर्ममाचरता मनुष्येण स्वकीयस्याराध्य-देवस्य पाराधना सगुण रूपेण कर्त्तव्या, अथवा निर्गुणरूपेणेति प्रश्नोऽयमुदति ? उभयविधो मार्गो निसर्गोज्ज्वलः किन्तु मानवानां चित्तैकाग्रता साधनमन्तरा नासम्भाविनी । अन्यच्च सरलेन सरसेन सगुणमार्गेण यदि सौकर्यं स्यात् तदा को नाम मन्दमतिः कठिनेन मार्गेण प्रयत्नशील: स्यात । सितशर्करया चेद् रोगनिवृत्ति स्तदा कः खलु कटुकौषधिशमनीयमुपायमाश्रयेत । ___ अतः सगुणोपासनामूत्तिपूजा-पद्धति श्च सकलेऽपि संसारे उररीक्रियते जनैः । प्रामाणिकमेतद् यत् भारतीय
(
४
)