________________
संस्कृतौ चैत्यानां मन्दिराणां मूर्तीनाश्च प्राधान्यमासीत । श्रीकश्मीरप्रदेशात् कन्याकुमारीपर्यन्तं सर्वेषु ग्रामेषु नगरेषु च हिन्दु - जैन-बौद्धानां स्थापत्य - शिल्पानां नव्यानि भव्यानि मन्दिराणि सन्ति ।
मन्दिराणां निर्माणानि अतीव प्राचीनानि सन्ति । समये-समये पुरातन विभागेन भग्नशेषाणां भूगर्भाणाञ्च मन्दिराणां मूर्तीनाञ्च सत्ता प्रमाणी क्रियतेऽनुदिनम् ।
श्री जैनागमशास्त्रेषु जैनेतरवेद-पुराणादि-ग्रन्थेषु च बहुतराणि मूर्तिपूजायाः प्राचीनतायाः प्रमाणानि दरीदृश्यन्ते । तदनु शास्त्रेषु साहित्य-काव्येषु विविध प्रबन्धेषु च ' मूर्तिपूजापद्धतिः' विशेषतः प्रमाणिता ।
अनाद्यनन्तश्चायं विश्वोऽक्षराकृतिमयः । सर्वज्ञ विभु श्री जिनेश्वर तीर्थङ्करभगवद्भिरर्थरूपेण भाषिताः श्रुतकेवलि श्रीगणधर भगवद्भिः सूत्ररूपेण गुम्फिताश्च परम पवित्राः श्री जिनागमा: - जैनागमाः शास्त्राणि चाक्षरमयापि तथैव वीतरागदेवानां श्री जिनेश्वराणां मूर्त्तयः, प्रतिमा: प्रकृतिमयानि । तयोर्द्वयोः श्री जिनागमप्रतिमयोश्चानन्य भावैरनुपमाराधनाभिः उपासनाभिरहनिशमवश्यं सेवनीये । द्वयो मध्ये एकतरस्यापि उपेक्षा निन्दा कर्मबन्धकरी । अनयोर्मध्ये एकस्यापि परित्यागेन ( ५ )
-