Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 105
________________ चूडामणिसारशास्त्रम् । [गाथा २३-२९] जइ पढमक्खरमहरं अवसाणे उत्तरक्खरं पण्हे । ता उत्तरो सुबलिओ विवरीओ ताण विवरीयं ॥ २३ ॥ जयपराजयप्रश्ने यदा प्रथमाक्षरमधरं अवसाने च उत्तरमक्षरं भवति तदा उत्तरो बली भवति ॥ २३ ॥ पढमसरेण य जुत्ता पण्हे मत्ताविवज्जिया वण्णा । अणभिहिअणामआ दे पअडंति य जीवचिंताई ॥ २४ ॥ प्रथमस्वरेण युक्ता अन्यमात्राविवर्जिता वर्णाश्च ते प्रश्ने अनभिहितनामका भवंति ते च जीवचिंता प्रकटयन्ति ॥ २४ ॥ ससि-तइअ-पंच-सत्तम-नवमसरा रुद्दसंखसरसहिया । क-च-टा पंचमहीणा सहिया य-स-हेहिं जीवक्खा ॥ २५॥ प्रथम-तृतीय-पंच-सप्तम-नवमाः स्वराः एकादशस्वरसहिताः, तथा कवर्ग-चवर्ग-टवर्गाः पंचमहीनाः, यकार-शकार-हकारसहिता एते एकविंशतिवर्णाः जीवाख्या भवन्तीति ॥ २५ ॥ बीओ छट्ठो सरओ सविसग्गो तह व-सक्खरोपेओ। तह उण पंचमहीणा त-पवग्गा धाउणामा उ ॥ २६ ॥ द्वितीयः षष्ठः स्वरः, सविसर्गः, तथा वकार-सकारोपेतः, तथा पुनस्तवर्गः पवर्गः पंचमहीन एते त्रयोदशवर्णा धातुनामका भवन्ति ॥ २६ ॥ ई ऐ औ सरजुत्ता र-ल-षा ङ-अ-ण-न-माइं वण्णाइं। एआरह मूलक्खा पयासिया जिणवरिंदेण ॥ २७ ॥ चतुर्थाष्टमदशमस्वरयुक्ता र-ल-षकारा ङ-ब-ण-न-माश्चेत्येकादश वर्णा मूलाक्षरप्रकाशका ॥ भवंतीति । एतेनैतदुक्तं भवति लाभप्रश्ने धातुलाभः, मूलाक्षरैर्जीवलाभः, धात्वक्षरैर्जीवाक्षरैर्मूललाभ इति नात्र कार्या विचारणा ॥ २७ ॥ मुट्ठीजीवक्खरए मूलं जीवं वि मूलअक्खरए । धाउं उण जाणिजह धाउक्खरएण किं चोजं ॥ २८ ॥ मुष्टौ जीवाक्षरैर्मूलं ज्ञातव्यम् , जीवं च मूलाक्षरैः, धातुं धात्वरैरेवेति किमित्याश्चर्यमिति ॥ २८॥ बहुपढमवग्गवण्णा अह बहुबिंदू विसग्गसंजुत्ता । बहुवन्ना जह पण्हे ता सुन्नं मुट्ठिचिंताई ॥ २९ ॥ प्रभे यदि बहवः प्रथमवर्गवर्णा भवन्तीति, अथवा बहुबिंदुविसर्गसंयुक्ता भवन्ति, अथवा प्रभा एव बहवो भवन्ति तदा मुष्टिचिन्तायां शून्यं भवति ॥ २९॥ प्र० जीबखरा। - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112