Book Title: Jambudwip Part 04
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
स्थापितुं शक्येत, अनेकासां शङ्कानां समाधानानि भवेयुस्तथा च सुबहव उन्मार्ग प्रति गन्तारो वार्येरन् । अस्माकमागमेषु वर्णितानां विषयाणां स्पष्ठता स्यादथ चाश्रद्वाया मूलं शिथिलं भवेत ।"
-
ईशानामुत्तमसङ्कल्पानां साकारत्वाय कपदवंशजैनभीसङ्गेन परमपूज्यागमोजारक - ध्यानस्थाचार्य श्री आनन्दसागरसूरीश्वरजी महाराजानां पट्टधरपूज्य गच्छाधि पति- श्रीमणिक्य सागरसूरीश्वरजी महाराजानां मङ्गलाशीर्वादाँस्तथोत्साहपूर्णा: प्रेरणाः समासाद्य श्रीसिद्ध गिरी - पालीताणा (सौराष्ट्र) नगर्या - मेकस्य विशालस्य 'जम्बूद्वीपमन्दिर'स्य निर्माणयोजना पू. आ. श्री कैह्रास सागरसूरीश्वराणां पट्टप्रभाकर - आचार्यश्री कल्याण सागरसूरीश्वरपूज्योपाध्याय श्रीधर्मसागर जीमहाराज - शिष्य पूज्यपन्यास - श्री अभयसागरजी महाराजानां तत्वावंधाने समायोज्यत ।
तस्यां योजनाया अनुसारं १९०x१९० फुट - मानस्याकृती जम्बूद्वीपस्य प्रतिकृतेनिर्माणसम्बन्धी निर्णयः स्वोकृतः ।
- तयोजनायै श्री सिद्धगिरि - पालीताणा क्षेत्रे तवर्तिनीमार्गे ( तलेटी रोड) विशालाया भूमेः ('छोट) क्रयणस्य मङ्गलकार्य सं २०२२ श्रावण शुक्ल दशम्यां गुरुवासरे समपद्यत !
HT
भारतीयस्य तत्त्वज्ञानस्य प्रतिष्ठा वर्षनाय विधीयमानेऽस्मिन् पवित्रे कर्मणि प्रत्येकमार्यसंस्कृतेरनुरागवतः साहाय्यं प्राप्तं तथाऽनेकेषां परिवर्तनानां परिष्करणानां पश्चाद ४७३
Jain Education International
४७ ३ फुटमितस्य जम्बूद्वीपस्य निर्माण रूपेण कियत्सुचिदंशेषु तस्या योजनायाः स्वरूपमस्माकं पुरत उपतिष्ठते । इयमस्ति 'जम्बूद्वीप - निर्माण योजना' याः पूर्वपीठिका ! ! ! पवित्र - योजनाया उद्देश्यानि
तथाssधुनिक विज्ञाने
भारतीय तत्त्वज्ञाने मूलतो भेदो विद्यते ।
आधुनिक विज्ञानं शरीर-बुद्धीन्द्रियमनसां गतिविधौ निर्भरमस्ति, तर्हि भारतीय तत्वज्ञानं सर्वेषामेतेषां सञ्चालकस्यात्म चैतन्यस्य गतिविधि निर्भरति ।
इमां मूलभूतां भेदरेखां वैदेशिका: कूटनीतिपूर्वकं शिक्षणाय माध्यमेन लोपयितुं प्रवृत्ताः !
यतो हि वैदेश्यानां विज्ञानवादस्य नाम्ना सत्यमावृत्त्यात्मगौरववर्धनाय सूर्य-चन्द्र- पृथ्वीप्रमृतीनां विषये जायमानान्यपूर्णान्यनिश्वितान्यनुसन्धानान्येव सत्यनीर्ति प्रतिपाथ 'इदमित्थ' मिति कथयित्वाssगम-शास्त्राणि मिथ्या-बोधनप्रयासा विगतेभ्यः पञ्चाशद्वर्षेभ्यो भवन्ति ।
संसारे बुद्धेर्बलेन कार्याणि सिद्धयन्त्यपि नश्यन्त्यपि च ।
वर्तमान युगस्य बुद्धवादिनः प्रगतिविकास - सदृशेषु... मोहकशब्देषु बुद्धेरुपयोगमनिष्टरूपेण भौतिक्यां दिशि कुर्वन्ति ।
--
-- परं तटस्थ - दृष्टया विचारं विना कस्यापि अपि वार्तायः सत्यत्व - स्वीकरणे नास्ति काऽपि बुद्धिमत्ता ? |
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202