Book Title: Jambudwip Part 04
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi

View full book text
Previous | Next

Page 162
________________ ऊर्ध्वक्षेत्रेऽस्ति । तत्र गमनाय सततमेपोलोयानस्योर्ध्वगमनमावश्यकमभूत् । एतेनेदं स्पष्टं भवति यत् पृथिव्यास्तिर्यग्भाग एवैपोलो यानेन गमनं कृतमिति । T (२) वयं यत्र वसामस्तद्विश्वं समस्तस्य विश्वस्यात्यन्तं लवीयान् भागो विद्यते । सकलविश्वस्य मध्यवर्तिनो जम्बूद्वीपस्य दक्षिणभागस्थ - भरतक्षेत्रस्य दक्षिणभागगतमध्यखण्डस्यात्यल्पखण्डे वर्तमानं पूर्ण ज्ञातविश्वमस्ति । भरत क्षेत्रस्यायामः पूर्व - पश्चिमयोः १०,८०, माइलमितस्तथोत्तर-दक्षिणयोः ८,५७, ३६८ माइलमितोऽस्ति । मध्यखण्डस्य मध्यकेन्द्रा दक्षिण-पश्चिमयोर्मध्यवर्त्तिनि नैऋत्यकोणे ३,७०,००० माइलदूरे ८००० माइलमितव्यासशालिनि प्रदेशे वयं वसामः । ०००० इत एपोलोयानं पूर्वस्यां दिशि गतमस्ति, तदा पूर्वस्यां दिशि ये बहवः पर्वताः तेष्वेव कस्मिन्नप्येकस्मिन् एपोलो यानस्यावतरणं सम्पन्नं भवेत् ? इत्थमनेन विमर्शेन स्पष्टं भवति । यदि वस्तुत एपोलोयानं पृथ्वीत ऊर्ध्वं गतं भवेत् तदा प्रायः सार्धद्विलक्षमित दूर स्थितैरन्तरिक्षयात्रिभिः सह नासास्थितैवैज्ञानिकैः सम्पर्कः कथं रक्षितः ? एपोलोयानस्य यात्रिणो दूरदर्शन - यन्त्रेण चित्राणि प्रेषयितुं कथं सक्षमा अभवन् ? नासा स्थितैर्वज्ञा निकैर्वार्तालापो विहितः, दूरदर्शयन्त्रे कार्यक्रमा आयाताः; इयं वार्तेव प्रमाणयति यदेपोलोयानं भुव ऊर्ध्व १९० माइल - मेवात् (आयनोस्फीयर) वातावरणस्य मर्यादा Jain Education International यावदेवागमत्, तथा तदनन्तरं पूर्वस्यां दिशि तिर्यग्भागे साद्विलक्षमाइलं यावदगच्छदिति । यदि सर्वथा २ | लक्षमाइलमुच्चैरेव तथानं गतमभविष्यच्चेत् २०० माइलस्यायनोस्फीयरस्यानन्तरं एक्झोस्फीयरे गतवता एपोलो यानेन सह कोस्मिक रेंज ( प्रकाश - पंक्तिपटल) स्थावरोधानां कारणाद् वैज्ञानिका अन्तरिक्षयात्रिभिः सह सम्पर्क साधयितुं क्षमा नाऽभविष्यन् । (३) वैज्ञानिकानां कथनानुसारं व्योमयात्रिणः पृथ्या ऊर्ध्वं २|| लक्षमाइलमितं दूरे गतवन्तः, तत्र वातावरणं नास्ति चेद् ! राकेटस्य विस्फोटशब्दस्तत्र कथमभूत् ? चन्द्रस्य गुरुत्वाकर्षणे प्रविश्य भ्रमणकक्षायां स्थैर्याय तथा भ्रमणकक्षातो निस्सृत्य चन्द्रस्य गुरुत्वाकर्षणाद्विमुक्तये व्योमयात्रिभिविस्फोटस्तु विहित एवास्ति । तदा वेक्यूम (वायुशन्यता ) मध्ये इन्धनं ज्वलितमेव कथम् ? कदाचिद् वयमेवं मानयेम यत् ते यथा श्वासेभ्यो बाष्पस्य कूपिकांसह नीत्वा गतास्तथैव बाष्पस्य कूपिकायां प्रज्वलतो बाष्पस्य सहकारेण विस्फोटः सञ्जातः स्यात् परं प्रज्वलितेन्धनस्यावशेषस्याथवा धूमस्य बहिर्निःसरणं कथमभूत् ? " वातावरणं विना इन्धनप्रवज्वलनमथवा घूमो विना वातावरणमाध्यमं बहिर्निःसर्तु शक्यत नैव 1 एव अस्मादप्येवं निगदितुं शक्यते यत् १९० माइलत ऊर्ध्व ते न गताः, अपि तु तिर्यग्भागे २|| लक्षमाइलमितं गता इति । For Personal & Private Use Only www.jalnelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202