Book Title: Jaina Puja
Author(s): Champat Rai Jain
Publisher: Vira Office Bijnor

Previous | Next

Page 52
________________ ये पूजां जिननाथशास्त्रयमिनां भक्त्या सदा कुर्वते, त्रै सन्ध्यं सुविचित्रकाव्यरचनामुञ्चारयन्तो नरा। पुण्याड्या मुनिराजकीर्तिसहिता भूत्वा तपोभूषणां स्तेः भव्या सकलाववोधरुचिरां सिद्धिं लभन्ते. पराम् ॥१०॥ इत्याशीर्वादः (पुष्पांजलि क्षेपण) वृषभोऽजितनामा च संभवश्वाभिनन्दनः । सुमतिः पद्मभासश्च सुपाश्वो जिनसत्तमः ॥१॥ चन्द्राभः पुष्पदन्तश्च शीतलो भगवान्मुनिः। श्रेयांश्च वासुपूज्यश्च विमलो विमलद्युतिः ॥२॥ अनन्तो धर्मनामा च शान्तिः कुन्थुर्जिनोत्तमः। अरश्च मल्लिनाथश्च सुव्रतो नमितीर्थकृत् ॥३॥ हरिवंशसमुद्भू तोरिएनेमिर्जिनेश्वरः । ध्वस्तोपसर्गदैत्यारिः पार्यो नागेन्द्रपूजितः ॥४॥ कम्र्माकृन्तन्महावीरः सिद्धार्थकुलसम्भवः । एते सुरासुरौघेण पूजिता विमलत्विपः ॥ ५॥ पूजिता भरतायैश्च भूपेन्द्र रिभूतिभिः । चतुर्विधस्य सङ्घस्य शान्तिं कुर्वन्त शाश्वतीम् ॥६॥ जिने भक्तिर्जिने भक्तिर्जिने भक्तिः सदाऽस्तु मे। सम्यक्त्वमेव संसारवारणं मोक्षकारणम् । ७ ॥ (पुष्पांजलि क्षेपण करना) श्रुते भक्तिः श्रुते भक्तिः श्रुते भक्तिः सदास्तु मे। सज्ञानमेव संसारवारणं मोक्षकारणम् ॥८॥ (पुष्पांजलि क्षेपण करना) . गुरौ भक्तिगुरौ भक्तिगुरौ भक्तिः सदास्तु मे। चारित्रमेव संसारवारणं मोक्षकारणं ॥६॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57