Book Title: Jaina Puja
Author(s): Champat Rai Jain
Publisher: Vira Office Bijnor

Previous | Next

Page 56
________________ 'शान्तिपाठः । [शान्तिपाठ पढ़ते समय दोनों हाथोंसे पुष्पवृष्टि करते रहना चाहिये। शान्तिजिनं शशिनिर्मलवक्त्रं शीलगुणप्रतसंयमपानम् । अष्टशताचितलक्षणगान नौमि जिनोत्तममम्बुजनेत्रम् ॥३॥ पञ्चममीप्सितचक्रधराणा पूजितिमिन्द्रनरेन्द्रगणैश्च ।। शान्तिकरं गणशान्तिममीप्सुः पोदातीर्थकरं प्रणमामि ॥२॥ दिव्यतासुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ । आतपवारणचामरयुग्मे यस्य विभाति च मण्डलसेजः ॥३॥ तं जगदर्चितशान्तिजिनेन्द्र शान्तिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शान्तिं मलमरं पठते परमां च ॥४॥ वसन्तिलका । येऽभ्यचिंता मुकुटकुण्डलहाररस्नैः शक्रादिभिः सुरगणैः स्तुतपादपद्मः । ते मे जिनाप्रवरवंशजगप्रदीपास्तीर्थक्षराः सततशान्तिकरा भवन्तु ॥ ५॥ इन्द्रवज्जा। संपूजकानां प्रतिपालकानां यतीन्द्र सामान्यतपोधनानाम् . देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शांति भगवान् जिनेन्मः ॥ ६ ॥ स्रग्धरावृतम् । क्षेमं सर्वप्रजानां प्रभवतु बलवान् धार्मिको भूमिपालः ।. . काले काले च सय्यग्वर्षतु मघवा व्याधयो यान्तु नाशम् ॥ दुर्भिक्षं चौरमारी क्षणमपि जगतां मास्मभूज्जीवलोके । जैनेन्द्र धर्मचक्र प्रभवतु सततं सर्वसौख्यप्रदायि ॥ ७ ॥ अनुष्टुप-प्रध्वस्तधातिकमर्माणः केवलज्ञानभास्कराः। . कुर्वन्तु जगतः शान्ति वृषभाधा जिनेश्वराः ॥ ८॥ प्रथमं करणं चरणं द्रव्यं नमः । G

Loading...

Page Navigation
1 ... 54 55 56 57