Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 4
________________ श्री तपागच्छ - संविग्नशाखाप्रवर्त्तक योगीश्वर अनुयोगाचार्य पंन्यास सत्यविजयगणिपट्टक्रमानुगतअनुयोगाचार्य पंन्यासश्री भावविजयगणि ॥ स्तुत्यष्टकम् ॥ ॥ १ ॥ । ॥ २ ॥ । तारुण्ये जयिना स्मरं विजयिनं जित्वाऽपि भोगाईंके । दधे येन महौजसाऽतितरसा जैनेश्वरी आदृता ॥ दीक्षाsक्षाश्ववलप्रसारयमने सुप्रग्रहप्रोपमा । पंन्यासप्रवरः स भावविजयो भूयाद् भवोत्तारकः आत्मोत्कर्षनिरोघिनोऽगुणगणा यं वीक्ष्य शोकाकुलाः । जाताः श्रीकलिताङ्गमीक्ष्यमदनः शुष्यन्मदो लज्जया तारुण्योद्भवकामकेलिरचना संत्यज्य रागिस्थिता । पंन्यास प्रवरं सुभावविजयं वन्दे सदा भावतः प्रज्ञोन्मेषवशादवापि सहसा सिद्धान्तमार्गों हृढः । येनाऽकारि तपोऽन्तरं च विविधं बाह्यं च कृच्छ्राधिकम् प्राप्वाऽलामि मनुष्यजन्म सुलभं संप्रोज्झता दुष्कथाः । पंन्यासप्रवरेण भावविजयेनाऽदायि बोधामृतम् ॥ ३ ॥ दुर्ष्यानोज्झितचेतसे गुणभृते कर्माष्टनाशेच्छवे । सम्यग्दर्शनशुद्धबोधविरतेराराधिनेऽसङ्गिने । संसाराब्धितितीर्षवे निजगुणानादित्सवे साधवे । पंन्यासप्रवराय भावविजयायाहं नमामि ध्रुवम् 118 11 यस्माद् बोधमयीं महोदयवतीं धर्मामृतस्यन्दिनीम् । संसारार्णवतारणैकतरणीं दुःखौघप्रध्वंसिनीम् । जीवानन्दविधायिनीं भवमृतीरोगापहन्त्रीं गिरम् । श्रुत्वा शान्तरसप्रदां भविगणाः शान्ति परां लेभिरे ॥ ५ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 333