Book Title: Jain Tarka Bhasha
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 52
________________ १. प्रमाणपरिच्छेदः । भिरेकत्रैकसम्बन्धाघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् । गुणिदेशस्य च प्रतिगुणं मेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशा भेदप्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गि मेदात्, तदभेदे संसर्गिभेदविरोधात् । शब्दस्य प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यताप चेरिति कालादिभिर्भिन्नात्मनामभेदोप- 5 चारः क्रियते । एवं भेदवृत्तितदुपचारावपि वाच्याविति । पर्यवसितं परोक्षम् । ततथ निरूपितः प्रमाणपदार्थः । इति महामहोपाध्याय श्रीकल्याणविजय गणि शिष्यमुख्यपण्डितश्रीलांभविजयगणिशिष्यावतंसपण्डित श्रीजीत विजयगणि सतीर्थ्य पण्डित श्रीनयविजयगणिशिष्येण पण्डितश्रीपद्मविजयगणि सहोदरेण पण्डितयशोविजयगणिना कृतायां जैनतर्कभाषायां प्रमाणपरिच्छेदः सम्पूर्णः । Jain Education International २१ sederer २. नयपरिच्छेदः । [ १. नयानां स्वरूपनिरूपणम् । ] 1 ६१. प्रमाणान्युक्तानि । अथ नया उच्यन्ते । प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयोः । प्रमाणै- 15 कदेशत्वात् तेषां ततो भेदः । यथा हि समुद्रैकदेशो न समुद्रो नाप्यसमुद्रस्तथा नया अपि न प्रमाणं न वाsप्रमाणमिति । ते च द्विधा - द्रव्यार्थिकपर्यायार्थिक भेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः । प्राधान्येन पर्याय मात्रग्राही पर्यायार्थिकः । तत्र द्रव्यार्थिकत्रिधा नैगमसङ्ग्रहव्यवहारभेदात् । पर्यायार्थिकचतुर्धा ऋजुमूत्रशब्दसमभिरूदैवंभूतमेदात् । ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणाः । 20 ६२. तत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्यापर्यायद्रव्ययोश्च मुख्यामुख्यरूपतया विवक्षणपरः । अत्र सञ्चैतन्यमात्मनीति २ तुलना- प्र. न. ७.१ । २ तुलना - "नाप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः । स्यात्प्रमाणैकदेशस्तु सर्वथाप्यविरोधतः ॥ नायं वस्तु नचावस्तु वस्स्त्वंशः कथ्यते यतः । नामुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥" तत्त्वार्थश्लोकवा० १.६.२१,५ । ३ तुलना- प्र. न. ७. ५ । ४ तुलना- प्र. न. ७. ६ । ५ तुलना- प्र. न. ७,२७ । ६ तुलना- प्र. न. ७.७ । "गुणप्रधानभावेन धर्मयोरेकधर्मिणि । विवक्षा नैगमोऽत्यन्तभेदोक्तिः स्यात्तदाकृतिः ॥ लधीय० ६.१८ । तस्वार्थ श्लोकवा ० १.३३. २१ । For Private & Personal Use Only 10. www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110