Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥३॥
कला विचित्रा: स चित्रसम्भूतौ । 'मातङ्गपतेः पत्नी-मनुरक्तामरमयच्च कुधीः ॥ १८ ॥ तच्चावबुद्धय रुष्टे, श्वपचपतौ हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप- कारित्वाच्चित्रसम्भूतौ ॥ १९ ॥ निर्गत्य ततो नमुचि- द्रुतं ययौ हस्तिनापुरे नगरे । तत्र च सनत्कुमार-श्चक्री तं धीसखं' चक्रे ॥ २० ॥
इतश्च रुपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् ।। प्राप्तौ श्वपचसुतौ स्मर- मधुसमयाविव युतौ बभतुः ॥ २१ ॥ वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् ॥ गायन्ती नृत्यन्ती, जगतो मनो व्यपाहरताम् ॥ २२ ॥ अन्येद्युः पुरि तस्यां मधूत्सवः प्रववृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचर्च्चर्यः ॥ २३ ॥ निरगाच्च चर्च्चरी 'तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुगतं, किन्नरमदहारि तो स्फीतम् ॥ २४ ॥ आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् ॥ त्यक्तान्यचर्च्चरीकाः, पौराः पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ॥ गातारोऽन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ २६ ॥ मातङ्गाभ्यां स्वामिन्!, गीतेनाकृष्य पौरलोकोऽयम् ॥ सकलोऽपि कृतो मलिन- स्तत इत्यलपन्नृपः कोपात् ॥ २७ ॥ पुर्यां प्रवेष्टुमनयोन देयं वेश्मनीव कुर्कुरयोः ।। तत आरभ्य वृकाविव, तौ दूरमतिष्ठतां पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति १. चाण्डालपतेः । २. मन्त्रिणम् । ३. गायकजनयूथः । ४. कोपवशात् ।
॥ श्रीचित्रसम्भूत चरित्रम् ॥
11311

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 272