Book Title: Jain Granth Sangraha
Author(s): Nandkishor Sandheliya
Publisher: Jain Granth Bhandar Jabalpur

View full book text
Previous | Next

Page 68
________________ ૩૮૮ जैन - ग्रन्थ- संग्रह | अद्याष्टकस्तोत्रम् । अद्य मे सफलं जन्म नेत्रे च सफले मम । त्वामद्राक्षंयतो देव हेतुमक्षय सम्पदः ॥ १ ॥ भद्य संसारगम्भीरपारावारःसुदुस्तरः । सुतरोऽयं क्षणेनैव जिनेन्द्र तव दर्शनात् ॥ २ ॥ अद्य मे क्षालितं गात्रं नैत्रे च विमले कृते । स्नाताहं धर्मतीर्थेषु जिनेन्द्र तव दर्शनात् ॥ ३ ॥ अद्य मे सफलं जन्म प्रशस्तं सर्वमंगलम् । संसारार्णवतीर्णोहं जिनेन्द्र तब दर्शनात् ॥ ४ ॥ अद्य कर्माष्टकज्वालं विघूर्त सकषायकम् । दुर्गतेर्विनिवृत्तोऽहं जिनेन्द्र तव दर्शनात् ॥ ५ ॥ अद्य सौम्या ग्रहाः सर्वे शुभाश्रचकादशस्थिताः । नष्टानि विघ्नजालानि जिनेन्द्र तव दर्शनात् ॥ ६ ॥ अद्य नष्टो महाबन्धः कर्मणां दुःखदायकः । सुखस समापन्नो जिनेन्द्र तव दर्शनात् ॥ ७ ॥ अद्यकर्माष्टकं नष्ट दुःखोत्पादनकारकम् । सुखाम्भोधिनिमग्नोऽहं जिनेन्द्र तव दर्शनात् ॥ ८ ॥ अद्य मिथ्यान्धकारस्य हन्ता ज्ञानदिवाकरः । उदिता मच्छरीरेऽस्मिन् जिनेन्द्र तव दर्शनात् ॥ ६ ॥ अद्याहं सुकृती भूतो निर्धूताशेष कल्मषः । भुवनेत्रयपूज्योऽहं जिनेन्द्र तव दर्शनातू ॥ १० ॥ भद्याष्टकं पठेद्यस्तु गुणानन्दितमानसः । तस्यसर्वार्थसंसिद्धिर्जिनेन्द्र तव दर्शनात् ॥ ११ ॥ • इति श्रद्याष्टकं स्तोत्रं सम्पूर्णम् ॥' . सूतकनिर्णय । सुतक में देव शास्त्र गुरुका पूजन प्रक्षालादि तथा मन्दिरजीका वस्त्राभूषणादिको स्पर्शनकी मना है तथा पान दान भी वर्जित है ॥ सुतक पूर्ण होने के बाद प्रथम दिन पूजन

Loading...

Page Navigation
1 ... 66 67 68 69 70 71