Book Title: Jain Adhyatma Academy of North America
Author(s): Jain Center of Southern America
Publisher: USA Jain Center Southern California

Previous | Next

Page 47
________________ तत्वार्थसूत्र मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद् गुणलब्धये ।। त्रैकाल्यं द्रव्य-षट्कं नव-पद-सहितं जीव-षट्काय-लेश्याः पञ्चान्ये चास्तिकाया व्रत-समिति-गति-ज्ञान-चारित्र-भेदाः । इत्येतन्मोक्षमूलं त्रिभुवन-महितैः प्रोक्तमहद्भिरीशैः । प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टि: ॥१॥ तृतीय अध्याय रत्न-शर्करा-बालुका-पङ्क-धूम-तमो-महातमः-प्रभा-भूमयो घनाम्बुवाताकाश-प्रतिष्ठाः सप्ताधोऽधः ॥१।। तासु त्रिंशत्पञ्चविंशति-पञ्चदश-दश-त्रि-पञ्चोनेक-नरक-शतसहस्राणि पच्च चैव यथाक्रमम् ॥२॥ नारका नित्याशुभतर-लेश्या-परिणामदेह-वेदना-विक्रियाः ॥३॥. परस्परोदीरित-दुःखाः ॥४॥ संक्लिष्टासुरोदीरित-दुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति - त्रयस्त्रिशत्सागरोपमा सत्त्वानां परा स्थिति: ।।६।। जम्बूद्वीप-लवणोदादयः शुभनामानो द्वीप-समुद्राः ।।७।। द्विििवष्कम्भाः पूर्व-पूर्व-परिक्षेपिणो वलयाकृतयः ॥८॥ तन्मध्ये मेरु-नाभिर्वृत्तो योजन-शतसहस्रविष्कम्भो जम्बूद्वीपः ॥६॥ भरत-हैमवत-हरि-विदेह-रम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषध-नील-रुक्मि-शिखरिणो वर्षधरपर्वता: ।।११॥ हेमार्जुन-तपनीय-वैडूर्य-रजत-हेममयाः ।।१२।। मणिविचित्र-पार्वा उपरिमूले च तुल्य-विस्ताराः ॥१३॥ 46 Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66