Book Title: Jain Adhyatma Academy of North America
Author(s): Jain Center of Southern America
Publisher: USA Jain Center Southern California

Previous | Next

Page 49
________________ पद्म-महापद्म-तिगिच्छ-केशरि-महापुण्डरीक-पुण्डरीका हृदास्तेषामुपरि ॥१४॥ प्रथमो योजन-सहस्रायामस्तदद्ध विष्कम्भो हृदः ॥१५॥ दश-योजनावगाहः ॥१६॥ तन्मध्ये योजनं पुष्करम् ॥१७॥ तद् द्विगुरण-द्विगुरणा हृदाः पुष्कराणि च ॥१८॥ तन्निवासिन्यो देव्यः श्री-ही-धृति-कीति-बुद्धि-लक्ष्म्यः पल्योपमस्थितयः ससामानिक-परिषत्काः ॥१६॥ गङ्गा-सिन्धुरोहिद्रोहितास्या-हरिद्धरिकान्ता-सीता-सीतोदा-नारी-नरकान्तासुवर्ण-रूप्यकला-रक्ता-रक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ द्वयोर्द्व योः पूर्वाः पूर्वगाः ॥२१॥ शेषास्त्वपरगाः ॥२२॥ धतुर्दश-नदी-सहस्र-परिवृता गङ्गा-सिन्ध्वादयो नद्यः ॥२३॥ भरतः षड्विंशति-पञ्चयोजनशत-विस्तारः षट् चकोतविंशतिभागा योजनस्य ॥२४॥ तद्विगुण-द्विगुण-विस्तारा वर्षधरवर्षा विदेहान्ता: ॥२५।। उत्तरा दक्षिण-तुल्याः ॥२६॥ भरतरावतयोवृद्धि-ह्रासौ षट्समयाभ्यामुत्सपिण्यवसर्पिणीभ्याम् ॥२७॥ ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ एक-द्वि-त्रिपल्योपम-स्थितयो हैमवतक-हारिवर्षक-देवकुरवकाः ॥२६॥ तथोत्तराः ॥३०॥ विदेहेषु संख्येय-कालाः ॥३१॥ भरतस्य वि कम्भो जम्बूद्वीपस्य नवति-शत-भागः ॥३२॥ द्विर्धातकीखण्डे ॥३३। पुष्कराद्धे च ॥३४॥ प्राङ मानुषोत्तरान्मनुष्याः ॥३५॥ आर्या म्लेच्छाश्च ॥३६॥ भरतरावत-विदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३७॥ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ॥३८॥ तिर्यग्योनिजानां च ॥३८॥ 18 Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66