Book Title: Ishtopadesh
Author(s): Pujyapad Aacharya
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 61
________________ इष्टोपदेश यस्य स्वयं स्वभावाप्तिरभावे कृत्स्नकर्मणः । . तस्मै संज्ञानरूपाय नमोऽस्तु परमात्मने ।।१।। योग्योपादानयोगेन दृषदः स्वर्णता मता । द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्मता मता ॥२।। वरं व्रतैः पदं दैवं नाव्रतैर्बत नारकम् । छायातपस्थयोर्भेदः प्रतिपालयतोर्महान् ||३|| यत्र भावः शिवं दत्ते द्यौः कियद्दूरवर्तिनी । यो नयत्याशु गव्यूतिं क्रोशार्धे किं स सीदति ॥४|| हृषीकजमनातकं दीर्घकालोपलालितम् । नाके नाकौकसां सौख्यं नाके नाकौकसामिव ।।५।। वासनामात्रमेवैतत्सुखं दुःखं च देहिनाम् । तथा ह्युद्वेजयन्त्येते भोगा रोगा इवापदि ॥६।। मोहेन संवृतं ज्ञानं स्वभावं लभते न हि । मत्तः पुमान् पदार्थानां यथा मदनकोद्रवैः |७|| वपुहं धनं दाराः पुत्रा मित्राणि शत्रवः । सर्वथान्यस्वभावानि मूढः स्वानि प्रपद्यते ||८|| दिग्देशेभ्यः खगा एत्य संवसन्ति नगे नगे । स्वस्वकार्यवशाधान्ति देशे दिक्षु प्रगे प्रगे ।।९।। विराधकः कथं हो जनाय परिकुप्यति । . त्र्यङ्गुलंपातयन् पद्भ्यां स्वयं दण्डेन पात्यते ||१०|| रागद्वेषद्वयी दीर्घनेत्राकर्षणकर्मणा । अज्ञानात्सुचिरं जीवः संसाराब्धौ भ्रमत्यसौ ॥११।।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88