Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 8
________________ इत्येव / मनसा मसित्तः उत्सुकः अवबद्धः। करणतृतीयाया विकल्पो मा भूत् / अब बद्धोत्सुकशब्दसाहचर्यात तदर्थ एव प्रसितशब्दोऽत्र गृह्यते / पूर्ववत् षष्ठीबाधनार्थ वचनम् / बहुवचनयेकद्विवहाविति यथासंख्यनिवृत्त्यर्थम्। पृष्ठम्-१२१-पंक्ति-२१ / मासादात् पतितः। भोजनादपत्रस्तः। 800 सूत्रे,१७५ पृष्ठे पंक्तावन्त्यायामन्ते। 1266-2 अनपत्ये // 7 / 4 / 55 // इनन्तस्यापत्यादन्यत्रार्थे योऽण् तस्मिन् परेऽन्त्यस्वरादेलुंग न स्यात् / / 569 पृष्ठे द्वितीयपंक्तौ भिक्षाणां समूहो भैक्षमित्यनन्तरम् / 1386-2 इकण्यथर्वणः॥७॥४॥४९॥ अथर्वन्शब्दस्येकणि प्रत्यये परेअन्त्यस्वरादेलग् न स्यात् / अथर्वाणं वेत्त्यधीते वा आथर्वणिकः / न्यायादित्यादिकण् / पृष्ठम्-२८७-पंक्ति-२२। 1562-2 जङ्गलधेनुवलजस्योत्तरपदस्य तु वा // 7 / 4 / 24 // आदेरित्यनुवर्तते / वेति तु निवृत्तम् / उत्तरपदस्य चेत्यकरणात् / जङ्गल धेनु वलज इत्येतदुत्तरपदानां शब्दानामादेः पूर्वपदस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य नित्यं वृद्धिः स्यात् उत्तरपदस्य पुनर्वा / कुरुजङ्गलेषु भवः कौरुजङ्गलः / कौरुजाङ्गलः। वैश्वधेनवः। वैश्वधैनवः / सौवर्णवलजः / सौवर्णवालजः। 1562-3 प्राचां नगरस्य // 7 / 4 / 26 // प्राचां देशे वर्तमानस्य नगरान्तस्य शब्दस्य णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / सुमनगरे भवः सौमनागरः। पौण्डनागरः। वाजु (वांज) नागरः / वैराटनागरः / गैरिनागरः / पाचामिति किम् / उदीचां माडनागरः / 1562-4 बिल्वकादेरीयस्य // 2 / 4 / 93 // नहादिषु बिल्वादयः पठयन्ते तेषां कीयप्रत्ययान्तानामिह निर्देशः / बिल्वकीयादीनां दशानां शब्दानामवयवस्येयस्य तद्धितयस्वरे परे लुक् स्यात् / अनाति इति नानुवर्तते / आतोऽ. संभवात् / बिल्वाः सन्त्यस्यामिति बिल्वकीया नाम नदी / तस्यां भवा बैल्वकाः। एवं वैणुकाः। वैत्रकाः / वैतसकाः। त्रैकाः। ताक्षकाः। ऐक्षुकाः / काष्ठकाः। कापोतकाः / क्रौञ्चकाः। बिल्वकीयादेरिति किम् / नाडकीयः। प्लाक्षकीयः / तद्धितयस्वर इत्येव / बिल्वकीयाः। बिल्वकीयरूप्यम् / / इमानि त्रीण्यपि सूत्राणि 318 पृष्ठे 21 पंक्तेरनन्तरं गृहीतव्यानि / 2179-2 च्वौ कचित् // 3 / 2 / 60 // परतः स्त्री अनूङ् च्वौ पुंवत् स्यात्

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1254