Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ प्रकरणम] सिद्धहैमबृहत्मक्रिया. 3 . 15 अं अः अनुस्वारविसौ // 11 // 9 // अकारावुच्चारणार्थो / अंइति नासिक्यो वर्णः, अः इति कण्ठ्यः / तौ यथासंख्यमनुस्वारविसर्गसंज्ञौ स्तः / / 16 अप्रयोगीत् // 11 // 37 // इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा यो लौकिके शब्दप्रयोगे न दृश्यते स इत्संज्ञकः स्यात् / अपयोगित्वानुवादेनेत्संज्ञाविधानाच्चास्य प्रयोगाभावः सिद्धः। 17 तुल्यस्थानास्पप्रयत्नः स्वः // 11 // 17 // यत्र पुद्गलस्कंधस्य वर्णभावापत्तिस्तत्स्थानं कंठादि / यदाहुः . अष्टौ स्थानानि वर्णानामुरः कंठः शिरस्तथा // जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च // 1 // अस्यत्यनेन वर्णानित्यास्यम् , ओष्ठात्मभृति प्राक् काकलकसंज्ञकात् कंठमणेः। आस्ये प्रयत्नः आस्यप्रयत्नः, आन्तरः संरभः / स चतुर्धा, स्पृष्टता 1 ईषत्स्पृष्टता 2 विवृतता 3 ईषद्विवृतता 4 / तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञकः स्यात् / करणं तु जिह्वामूलमध्याग्रोपाग्ररूपं स्थानास्यप्रयत्नतुल्यत्वे सति नातुल्यं भवतीति पृथग्नोक्तम् / तत्र स्थानम्:-अवर्णहविसर्गकवर्गाः कंठ्याः / इवर्णचवर्गयशास्तालव्याः / उवर्णपवर्गोपध्मानीया ओष्ठयाः / ऋवर्णटवर्गरषा मूर्धन्याः। लुवर्णतवर्गलसा दन्त्याः / ए ऐ तालव्यौ / कंठतालव्यौ इत्यन्ये / ओ औ ओष्ठ्यौ / कंठोष्ठ्या इत्यन्ये / वो दन्त्योष्ठयः। जिह्वामूलीयो जिव्यः / नासिक्योऽनुस्वारः / ङमणनमाः स्वस्थाननासिकास्थानाः। अथास्यप्रयत्नः। तत्र स्पृष्टं प्रयतनं स्पर्शानाम् / स्पर्शा वाः। ईषत्स्पृष्टमन्तस्थानाम् / ईषद्वितमूष्मणाम् / शषसहा ऊष्माणः। विकृतं स्वराणाम् / स्वरेषु एओ विकृततरौ। ताभ्यामपि ऐ औ। ताभ्यामप्यवर्णः / अकारः संवृतः इत्यन्ये / अत्र सूत्रे आस्यग्रहणं बाह्यप्रयत्ननिवृत्त्यर्थम् / बाह्यप्रयत्नाश्चैकादश, यथा-विवारः संवारः श्वासः नादः घोषः अघोषः अल्पमाणः महाप्राणः उदात्तः अनुदात्तः स्वरितश्चेति / तत्र वर्गाणां प्रथमद्वितीयाः शषसविसर्गजिह्वामूलीयोपध्मानीया विवाराः श्वासा अघोषाश्च / वर्गाणां तृतीयचतुर्थपञ्चमा अन्तस्था हकारानुस्वारौ च संवारा नादा घोषाश्च / वर्गाणां प्रथमतृतीयपश्चमा अन्तस्थाचाल्पप्राणाः / इतरे सर्वे महाप्राणाः। सर्वे स्वराश्च उदात्ता अनुदात्ताः स्वरिताः / इमे विवारादयो वर्णनिष्पत्तिकालादूर्ध्वं वायुवशेनोत्पद्यन्ते, स्पृष्टतादयस्तु स्थानास्यप्रयत्नव्यपारेण वर्णोत्पत्तिकाल एवेति वर्णनिष्पत्तिकालभावाभावाभ्यां
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 1254