________________ प्रकरणम] सिद्धहैमबृहत्मक्रिया. 3 . 15 अं अः अनुस्वारविसौ // 11 // 9 // अकारावुच्चारणार्थो / अंइति नासिक्यो वर्णः, अः इति कण्ठ्यः / तौ यथासंख्यमनुस्वारविसर्गसंज्ञौ स्तः / / 16 अप्रयोगीत् // 11 // 37 // इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा यो लौकिके शब्दप्रयोगे न दृश्यते स इत्संज्ञकः स्यात् / अपयोगित्वानुवादेनेत्संज्ञाविधानाच्चास्य प्रयोगाभावः सिद्धः। 17 तुल्यस्थानास्पप्रयत्नः स्वः // 11 // 17 // यत्र पुद्गलस्कंधस्य वर्णभावापत्तिस्तत्स्थानं कंठादि / यदाहुः . अष्टौ स्थानानि वर्णानामुरः कंठः शिरस्तथा // जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च // 1 // अस्यत्यनेन वर्णानित्यास्यम् , ओष्ठात्मभृति प्राक् काकलकसंज्ञकात् कंठमणेः। आस्ये प्रयत्नः आस्यप्रयत्नः, आन्तरः संरभः / स चतुर्धा, स्पृष्टता 1 ईषत्स्पृष्टता 2 विवृतता 3 ईषद्विवृतता 4 / तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञकः स्यात् / करणं तु जिह्वामूलमध्याग्रोपाग्ररूपं स्थानास्यप्रयत्नतुल्यत्वे सति नातुल्यं भवतीति पृथग्नोक्तम् / तत्र स्थानम्:-अवर्णहविसर्गकवर्गाः कंठ्याः / इवर्णचवर्गयशास्तालव्याः / उवर्णपवर्गोपध्मानीया ओष्ठयाः / ऋवर्णटवर्गरषा मूर्धन्याः। लुवर्णतवर्गलसा दन्त्याः / ए ऐ तालव्यौ / कंठतालव्यौ इत्यन्ये / ओ औ ओष्ठ्यौ / कंठोष्ठ्या इत्यन्ये / वो दन्त्योष्ठयः। जिह्वामूलीयो जिव्यः / नासिक्योऽनुस्वारः / ङमणनमाः स्वस्थाननासिकास्थानाः। अथास्यप्रयत्नः। तत्र स्पृष्टं प्रयतनं स्पर्शानाम् / स्पर्शा वाः। ईषत्स्पृष्टमन्तस्थानाम् / ईषद्वितमूष्मणाम् / शषसहा ऊष्माणः। विकृतं स्वराणाम् / स्वरेषु एओ विकृततरौ। ताभ्यामपि ऐ औ। ताभ्यामप्यवर्णः / अकारः संवृतः इत्यन्ये / अत्र सूत्रे आस्यग्रहणं बाह्यप्रयत्ननिवृत्त्यर्थम् / बाह्यप्रयत्नाश्चैकादश, यथा-विवारः संवारः श्वासः नादः घोषः अघोषः अल्पमाणः महाप्राणः उदात्तः अनुदात्तः स्वरितश्चेति / तत्र वर्गाणां प्रथमद्वितीयाः शषसविसर्गजिह्वामूलीयोपध्मानीया विवाराः श्वासा अघोषाश्च / वर्गाणां तृतीयचतुर्थपञ्चमा अन्तस्था हकारानुस्वारौ च संवारा नादा घोषाश्च / वर्गाणां प्रथमतृतीयपश्चमा अन्तस्थाचाल्पप्राणाः / इतरे सर्वे महाप्राणाः। सर्वे स्वराश्च उदात्ता अनुदात्ताः स्वरिताः / इमे विवारादयो वर्णनिष्पत्तिकालादूर्ध्वं वायुवशेनोत्पद्यन्ते, स्पृष्टतादयस्तु स्थानास्यप्रयत्नव्यपारेण वर्णोत्पत्तिकाल एवेति वर्णनिष्पत्तिकालभावाभावाभ्यां