________________ * सिद्धहैमबृहत्मक्रिया. . [ संज्ञा 5 अनवर्णा नामी // 11 // 6 // अवर्णरहिता औदन्ता वर्णा नामिसंज्ञकाः स्युः / अत्रापि बहुवचनं प्लुतस्य संग्रहार्थम् / एवमुत्तरत्रापि / 6 लदन्ताःसमानाः॥११॥ लकारान्ता वर्णाः समानसंज्ञका: स्युः। . 7 ए ऐ ओ औ संध्यक्षरम् // 1 // 18 // ए ऐ ओ औ इत्येते वर्णाः संध्यक्षरसंज्ञकाः स्युः / त इमे स्वरा औदन्ताः प्रत्येकमुदात्तादिभेदेन त्रिधा / उच्चैरुदात्तः / नीचैरनुदात्तः / समाहारः स्वरितः / पुनश्च सानुनासिकनिरनुनासिकत्वाभ्यामपीमे द्विधा। मुखसहितनासिकयोचार्यमाणों वर्णः सानुनासिकः / मुखेनैवोचार्यमाणो निरनुनासिकः / तदेवम् अ इ उ ऋ लवर्णानां प्रत्येकमष्टादश भेदाः। संध्यक्षराणां तु द्वादशैव, तेषां इस्वाभावात् / अत्र केचित् लवर्णस्यापि दीर्घाभाववत्त्वमाश्रित्य द्वादशैव भेदान् मन्वते / 8 कार्व्यिञ्जनम् // 1 / 1 / 10 // कादिवर्णो हकारपर्यन्तो व्यंजनसंज्ञः स्यात् / 9 अपञ्चमान्तस्थो धुट् / 11 / 11 // वर्गपञ्चमान्तस्थावर्जितः कादिवर्णो . * धुसंज्ञा स्यात् / __ 10 पञ्चको वर्गः // 22 // 12 // कादिषु वर्णेषु यो यः पञ्चसंख्यापरिमाणो वर्णः स स वर्गसंज्ञः स्यात् / 11 आद्यद्वितीयशषसा अघोषाः // 1 // 1 // 13 // वर्गाणामायद्वितीया वर्णाः शषसाश्चाघोषाः स्युः। 12 अन्यो घोषवान् // 1 / 1 / 14 // अघोषेभ्योऽन्यः कादिवर्णो घोषसंज्ञः स्यात् / 13 यरलवा अन्तस्थाः // 1 / 1 / 15 // यरलव इत्येते वर्णा अंतस्थासंज्ञाः . स्युः। अत्रेमे यवलाः सानुनासिकनिरनुनासिकत्वाभ्यां द्विधा। अतएव तेषां भेदपरिग्रहार्थः सूत्रे बहुवचननिर्देशः। . . 14 अं अः क पशषसाः शिट् // 11 // 16 // अनुस्वारो विसर्गो वज्राकृतिर्गजकुंभाकृतिश्च वर्णः शषसाच शिट्संज्ञकाः स्युः / अकारककारपकारा उच्चारणार्थाः। बहुवचनं वर्णेष्वपठितयोरपि 4 क.पयोर्वर्णत्वार्थम् / अनयोरेव 4 क 28 पयोजिह्वामूलीयोपध्मानीयत्वेन व्यवहारः।