________________ ॥श्रीसिद्धहैमबृहत्प्रक्रिया॥ (महाव्याकरणम्) नत्वा ब्रह्म भारती च हेमचन्द्रं च सद्गुरुम् // . प्रक्रियां वितनोमीमां हैमशब्दानुशासनीम् // 1 // तत्रादौ स्वयमाचार्यः शिष्टाचारमनुसृत्य प्रारिप्सितग्रंथस्य निर्विघ्नपरिसमाप्तिकामः शिष्यशिक्षायै च सूत्रमुखेनैव मङ्गलमाचष्टेः 1 अहम् // 11 // 2 // अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं . सिद्धचक्रस्याऽऽदिबीजं सकलागमोपनिषद्भूतमशेषविघ्नविघांतनिघ्नमखिलदृष्टादृष्टफलसंकल्पकल्पद्रुमोपममाशास्त्राध्ययनाध्यापनावधि प्रणिधेयम् / प्रणिधानं च 'अनेनात्मनः सर्वतः संभेदस्तदभिधेयेन चाभेदः / वयमपि चैतच्छास्त्रारंभे प्रणिदध्महे / अयमेव हि तात्त्विको नमस्कार इति / . . 2 सिद्धिः स्यावादात् // 111 / 2 // स्यादित्यव्ययमनेकान्तद्योतकम् / ततः स्याद्वादोऽनेकांतवादः नित्यानित्याधनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् / ततः सिद्धिनिष्पत्तिईप्तिर्वा प्रकृतानां शब्दानां वेदितव्या. .. // अथ संज्ञाप्रकरणम् // 3 औदन्ताः स्वराः // 1 // 2 // 4 // औकारान्ता वर्णाः स्वरसंज्ञकाः स्युः। तकार उच्चारणार्थः / 'औदन्ता' इति वहुवचनं वर्णेष्वपठितानां दीर्घपाठोपलक्षितानां प्लुतानां संग्रहार्थ, तेन तेषामपि स्वरसंज्ञा। 4 एकद्वित्रिमात्रा -हस्वदीर्घप्लुताः // 1 // 15 // मात्रा कालविशेषः। एकद्वित्र्युच्चारणमात्रा औदन्ता वर्णा यथासंख्यं इस्वदीर्घप्लुतसंज्ञाः स्युः। एकमात्रो हस्वः / द्विमात्रो दीर्घः / त्रिमात्रः प्लुतः /