________________ सिद्धहैमहत्त्रक्रिया. [संज्ञा निवारादीनां बाह्यत्वं स्पृष्टसादीनां चाभ्यन्तरत्वम् / बाह्यप्रयत्नाश्च यद्यपि स्वसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयुज्यन्त एवेति. * तपरस्तत्कालस्य / तः परो यस्मात् स च तात्परश्वोच्चार्यमाणसमकालस्यैव संक्षा स्वात् / तेन अत् इत् उत् इत्यादयः षण्णां षण्णां संज्ञा। 18 वृद्धिरादौत् // 3 // 3 // 1 // आकार आर् ऐकार औकारश्च प्रत्येक वृद्धिसंज्ञाः स्युः। 19 गुणोऽरेदोत् // 3 / 3 / 2 // अर् एत् ओत् इत्येते प्रत्येक गुणसंज्ञाः स्युः। 20 क्रियार्थो धातुः // 3 // 3 // 3 // कृतिः क्रिया प्रवृत्तिापार इति यावत् / पूर्वापरीभूता साध्यमानरूपा साऽर्थोऽभिधेयं यस्य स शब्दो धातुसंज्ञः स्यात / / 21 चादयोऽसत्वे // 1 // 1 // 31 // सीदतोऽस्मॅिल्लिङ्गसंख्ये इति सत्वं, लिङ्गसंख्यावद् द्रव्यमिति यावत् / ततोऽन्यत्र वर्तमानाश्चादयः शब्दा अव्ययसंज्ञकाः स्युः। निपाता इत्यपि पूर्वेषाम् / * प्रादयः। एतेऽपि तथा। प्र परा अप सम् अनु अव निस् निर् दुर् दुस् वि आङ् नि अघि प्रति परि उप अति अपि सु उत् अभि, इति प्रादयः। 11 धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमाांतिवर्जः प्रादिरुपसर्गः प्राक्च // 3 // 11 // धातोः संबंधी तदर्थयोती चाद्यन्तर्गतः प्रादिशब्दगणउपसर्गसंज्ञो भवति, तस्माच्च धातोः प्राक् प्रयुज्यते न परो न व्यवहितः, पूजार्थों स्वती गतार्थावधिपरी अतिक्रमार्थमसिं च वर्जयित्वा / - 23 ऊर्याचनुकरणविडाचश्च गतिः॥३॥१२॥ ऊर्यादय अनुकरणानि घख्यन्ता. डाजन्ताश्च शब्दा उपसर्गाश्च धातोः संबंधिनो गतिसंज्ञकाः स्युः। तस्माच धातोः मागेव प्रयुज्यन्ते / ___ * स्वं रूपं शब्दस्याऽशब्दसंज्ञा / शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना। 24 विशेषणमन्तः // 7 / 4 / 113 // विशिष्यते अनेनेति विशेषणम् / विशेषणं विशेष्यस्य समुदायस्यान्तोऽवयवो भवति / इह शास्त्रे धात्वादिः समुदायोऽ भेदेनावयव विशेषणक उपादीयते / तत्र सोऽवयवस्तत्समुदायस्यान्तत्वेन नियम्यते / * समासप्रत्ययविधौ प्रतिषेधः। ___ * उऋलदिद्वर्णग्रहणवर्जम् / 25 सप्तम्या आदिः // 74 / 114 // सप्तम्यन्तस्य विशेष्यस्य यद् विशेषणं तत् सस्थादिरवयवो भवति / * वर्णानामभावोऽवसानम् /