________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. अविरामः संहिता। 26 तदन्तं पदम् ॥१।१।२०॥स्याद्यन्तं त्याधन्तं च शब्दरूपं पदसंज्ञं स्यात् / * स्वराव्यवहितानि व्यंजनानि संयोगः / * ह्रस्वं लघु। * विसर्गाऽनुस्वारयुक् संयोगपरं च गुरु / * दीर्घमपि गुरु / ___ * आदेशः शत्रुवत् / * आगमो मित्रवत् / * लुक्लुप्लोपास्त्रयो वर्णादर्शनवाचकाः। * उक्त वर्णे स्वसंज्ञकस्याऽपि ग्रहणम् / कारे तु केवलस्यैव / 27 लोकात् // 11 // 3 // उक्तातिरिक्तानां क्रियागुणद्रव्यजातिकाललिङ्गस्वाङ्गसंख्यापरिमाणापत्यवीप्सालगवर्णादीनां संज्ञानां परान्नित्यं नित्यादन्तरङ्गमन्तरङ्गाचानवकाशं बलीय इत्यादीनां न्यायानां च लोकाद् वैयाकरणसमयविदः प्रामाणिकादेश्च शास्त्रप्रवृत्तये सिद्धिः स्यादिति ज्ञेयम् , वर्णसमाम्नायस्य च / इति श्रीसिद्धहैमबृहत्मक्रियायां संज्ञाप्रकरणम् समाप्तम्.॥ // अथ परिभाषाप्रकरणम् // * स्वरस्य ह्रस्वदीर्घप्लुताः / ह्रस्वदीर्घप्लुतशब्दैर्यत्र विधानं तत्र 'स्वरस्थ' इति षष्ठ्यन्तं पदमुपतिष्ठते / ___ * यस्याः संबंधविशेष अनिश्चितः सा षष्ठी स्थानेयोगा ज्ञेया। स्थानं च प्रसङ्गः। 28 आसन्नः॥१४॥१२०॥ इह आसन्नानासन्नमसङ्गे यथास्वं स्थानार्थप्रमाणादिभिरासन्न एव विधिर्भवति / __* यत्रानेकविधमासन्नत्वं तत्र स्थानत आसन्नत्वं बलीयः। 29 पञ्चम्या निर्दिष्टे परस्य // 7 // 4 / 104 // पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्परस्य स्थाने भवति / निर्दिष्टग्रहणमिहाऽऽनन्तर्यार्थम् / अतो मिस ऐस्' इत्यादौ दिग्योगलक्षणा पञ्चमी, तत्र पूर्वस्य परस्य च कार्य स्यादिति नियमार्थ वचनम् / 30 सप्तम्या पूर्वस्य // 74 / 105 // सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत् पूर्वस्यानन्तरस्य स्थाने भवति / 'इवर्णादेरस्वे स्वरे' इत्यादौ औपश्लेषिकमधिकरणं पूर्व परं च संभवति, तत्र परमेव ग्राह्यमिति नियमार्थ वचनम् / 31 षष्ठ्यान्त्यस्य // 4 / 106 // षष्ठया निर्दिष्टे यत्कार्यमुच्यते तदन्त्यस्य षष्ठीनिर्दिष्टस्यैव योऽन्त्यो वर्णस्तस्य स्थाने भवति नतु समस्तस्य / 32 अनेकवर्णः सर्वस्य // 74 / 107 // अनेकवर्ण आदेशः षष्ठया निर्दिस्य सर्वस्यैव स्थाने स्यात् /