________________ सिद्धहैमबृहत्प्रक्रिया. [ स्वरसन्धि 33 प्रत्ययस्य // 7 // 4 / 108 // प्रत्ययस्थाने विधीयमान आदेशः सर्वस्य स्यात् / * अपेक्षातोऽधिकारः। * स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् / / / * परनित्यान्तरङ्गानामुत्तरोत्तरं बलीयः। * असिद्धं बहिरङ्गमन्तरङ्गे। * न स्वरानन्तर्ये। * निमित्ताभावे नैमित्तिकस्याप्यभावः। * नानिष्टार्था शास्त्रप्रवृत्तिः। इति श्रीसिद्धहैमबृहत्मक्रियायां परिभाषाप्रकरणम् समाप्तम् // // अथ स्वरसन्धिप्रकरणम्॥ 34 समानानां तेन दीर्घः // 1 / 2 / 1 // समानसंज्ञकानां वर्णानां तेन परेण समानेन सहितानां दीर्घः स्यात् आसन्नः / दण्डाग्रम् / दधीदम् / मधूदकम् / पितृषभः। समानानामिति किम् / वागत्र / तेनेति किम् / दधि शीतम् / बहुवचनं व्याप्त्यर्थम् / तेनोत्तरसूत्रेण लऋतोरपि ऋति इस्वो भवति। क्ल ऋषभः / होत लकारः / अन्यथा 'ऋस्तयोः' इत्यनेन परत्वाद् ऋरेव स्यात् / .. 35 ऋलति ह्रस्वो वा // 1 / 2 / 2 // समानानामृकारे लुकारे च परे इस्वो वा स्यात् / बाल ऋश्यः, बालयः / खट्व ऋश्यः, खवश्यः / मह ऋषिः, महर्षिः। धूलि ऋतुः, धूल्यतुः। नदि ऋच्छति नच्छति, / तनु ऋजुता, तन्जुता / वधु ऋणम्, वकृणम् / कर्तृ ऋषभः, कर्तृषभः। बाल लकारः, बाललकारः। कन्य लकारः, कन्यल्कारः / इत्यादि / इस्वकरणसामर्थ्यादेव कार्यान्तरं न भवति / अत एव इस्वस्यापि इस्वः क्रियते / समानानामित्येव / वृक्षाच्छति। ऋलतीति किम् / दण्डाग्रम् / कन्याया ऋकारः कन्यारः। तकार उच्चारणार्थः / कश्चित्तु इखत्वाभावपक्षे प्रकृतिभावमपीच्छति। तन्मते खट्वा ऋश्यः, नदी ऋश्य इत्याद्यपि भवति / पाछतीत्यादौ तु परत्वादारेव / 'इस्वोऽपदे वा' इत्येव सिद्धाववर्णार्थ पदार्थ च वचनम् / - 36 लत ऋल ऋलभ्यां वा // 12 // 3 // लुतः स्थाने ऋता लता च परेण सहितस्य यथासंख्यं कल इत्यादेशौ वा स्याताम् / इति स्वरसमुदायो स्वरव्यञ्जनसमुदायो वा वर्णान्तरम्। तदपीपत्करणं द्विरेफतुरीयमध्यर्धस्वरमात्रमित्येके / संटततरं सकलरेफारमर्धमात्रस्वरभक्तिकमित्यन्ये / द्विरेफश्रुतिकमध्यर्धस्वरमात्रमि