________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. त्यपरे। एवं लू इत्यपि कृकारः। पक्षे ऋलतीति इस्व उत्तरेणकारश्च / क्लू ऋकारः। कृकारः। क्लृकारः / क्ल लकारः / क्लृकारः। लुवर्णस्य स्थानित्वमिच्छन्त्येके / 37 ऋतो वा तौ च // 1 // 24 // ऋकारस्य स्थाने ऋता लुत्ता च परेण सहितस्य यथासंख्यं क ल इत्यादेशौ वा स्याताम् , तौ च-ऋकारलकारौ ऋता लता च सह ऋकारस्य वा स्याताम् / पितृषभः, पितृषभः, पितृऋषभः / होलकारः, होतृ कारः. होटलकारः / तौ च-पितृषभः, होत्लकारः / पक्षे यथाप्राप्तम् / 38 ऋस्तयोः // 1 // 2 // 5 // तयोः-पूर्वस्थानिनोलकारऋकारयोः स्थाने यथासंख्यमृता लुता च परेण सहितयोकारो द्विमात्र आदेशः स्यात् / कृषभः। होतृकारः। 39 अवर्णस्येवर्णादिनैदोदरल् // 1 / 2 / 6 // अवर्णस्य स्थाने इवर्णावर्णऋवर्णलवणेः परैः सहितस्य यथासंख्यमेत् ओत् अर् अल् इत्येते आदेशाः स्युः * देवेन्द्रः / नवोदकम् / महा ऋद्धिः x महर्द्धिः / अत्र हादर्हेत्यादिना पक्षे द्वित्वे महर्द्धिः / धुटोधुटीत्येनन लुकि द्वित्वाभावे वा एकदमेकधम् / द्वित्वे लोपे च तथैव / द्वित्वे द्विदमेकधम् / एकदेऽपि लुकि केवलैकधमिति त्रैरूप्यं ज्ञेयम्-महर्द्धिः, महर्द्धिः, महर्षिः / तवल्कारः। अत्र 'अव्वर्गस्यान्तस्थातः' इत्यनेन पक्षे ककारस्य द्वित्वम् / लस्य तु 'अदीर्घाद्-' इत्यनेनेति रूपचतुष्टयं भवति / उक्त हि " द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि // ___तल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् " // . 40 ऋणे प्रदशार्णवसनकंबलवत्सरवत्सतरस्यार्॥१॥२॥णामादीनामवर्णस्य ऋणशब्दे परे परेण ऋकारेण सहितस्याऽऽर् इत्ययमादेशः स्यात् / अरोऽपवादः / प्रगतमृणं प्रार्णम् / दशानामृणं दशार्णम् / दश ऋणान्यस्य दशार्णः क्षत्रियः दश ऋणानि जलदुर्गाण्यस्यां दशार्णा नदी / ऋणस्यावयवतया संबंधि ऋणमृणार्णम्। वसनानामृणं वसनार्णम् / एवं कम्बलार्णम् / वत्सरार्णम् / वत्सतरार्णम् / इह सर्वत्र पक्षे इस्खोऽपि भवति। प्र ऋणम् , दश ऋणमित्यादि / वत्सरशब्दस्यारं नेच्छन्त्येके। .41 ऋते तृतीयासमासे // 1 // 28 // ऋतशब्दे परे योऽवर्णस्तस्य स्थाने परेण ऋकारेण सहितस्यार् इत्ययमादेशः स्यात्, तौ चेनिमित्तनिमित्तिनावेकत्र * यथासंख्यमनुदेशः समसंख्याकानाम् / x जलतुम्बिकान्यायेन रेफस्योर्ध्वगमनम् /