________________ सिद्धहैमबृहत्मक्रिया. [स्वरसन्धि तृतीयासमासे भवतः / शीतेन ऋतः शीतार्तः / ऋलतीति इस्वोऽपि भवति / शीत ऋतः / ऋत इति किम् / सुखेतः / तृतीयेति किम् / परमर्तः। समास इति किम् / सुखेनर्तः। ऋतेन कृतः ऋतकृतः, परमश्चासौ ऋतकृतश्च परमर्तकृत इत्यत्र तु निमित्तनिमित्तिनौ नैकत्र तृतीयासमासे इति न भवति / अवर्णस्येत्येव / पितृतः / अथ कथं 'क्षुधातःसन् शालीन् कवलयति मांस्पाकवलितान्' / क्षुधशब्दस्य व्यञ्जनान्तत्वात् क्षुद्रत इति प्राप्नोति / नैवम् / आपूर्व ऋते तृतीयान्तस्यासमस्तस्यायं प्रयोगः / आ ऋत इति उत्तरेणार / आर्तः। ततः क्षुधेत्यनेन संबंधः ।यस्य तु व्यञ्जनान्तादप्याए तन्मते क्षुधया ऋत इति समस्तपयोग एव स्यात् / / 42 ऋत्यारुपसर्गस्य // 1 // 2 // 9 // उपसर्गस्य संबन्धिनोऽवर्णस्य स्थाने ऋकारादौ धातौ परे परेण ऋकारेण सहितस्याऽऽरादेशः स्यात् सर्वापवादः। प्रा छति / परार्छति / ऋतीति किम् / उपेतः / उपसर्गस्येति किम् / इहर्च्छति / इह ऋच्छति / येन धातुना युक्ताः पादयस्तं प्रति गत्युपसर्गसंज्ञाः, तेनेह न, प्रगता ऋच्छका अस्मात् पर्छको देशः। आरिति वर्तमाने पुनराग्रहणमारेव यथा स्यादित्येवमर्थम् / तेनेहोत्तरयोश्च इस्वत्वं बाध्यते। . . 43 नाम्नि वा // 1 // 2 // 10 // उपसर्गस्य संबंन्धिनोऽवर्णस्य स्थाने ऋकारादौ नामावयवे धातौ (नामधातौ) परे परेण ऋकारेण सहितस्यारादेशो वा स्यात् / पार्षभीयति / केचित्तु पक्षे इस्वत्वमपि मन्यन्ते, प्र ऋषभीयति / उपसर्गस्येत्येव / इहर्षभीयति / ऋतीत्येव / उपोष्ट्रीयति / ऋकारमिच्छति, उपर्कारीयति / 44 लत्याल्वा // 12 // 11 // उपसर्गस्य सबन्धिनोऽवर्णस्य लति-लकारादौ नामावयवे धातौ परे परेण लकारेण सहितस्याऽऽल् वा स्यात् / अलोऽपवादः / उपाल्कारीयति / उपल्कारीयति / उपसर्गस्येत्येव / इहल्कारीयति / तृतीत्येव / लकारमिच्छति उपल्कारीयति। 45 ऐदौत्संध्यक्षः // 1 // 2 // 12 // अवर्णस्य स्थाने सन्ध्यक्षरैः परैः सहितस्यैत् औत् इत्यादेशावासन्नौ स्याताम् / तवैषा / तवैन्द्री / तबौदनः। तवौपगवः / अवर्णस्येव / दध्येतत् / दध्यैच्छत् / मध्वोदनः / साध्वौषधम् / संध्यक्षरित्यैत्वनिर्देशादुपसर्गस्येति निवृत्तम् / 46 ऊटा // 1 / 2 / 13 / अवर्णस्य परेणोटा सहितस्य स्थाने औकारादेशः स्यात आसन्नः। ओकारापवादो योगः। धौतः। धौतवान् ।लावयति, पावयतीति किपि णिलोपे 'अनुनासिके च च्छ्वःशूट ' इत्यूटि लौः, पौः /