________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 47 प्रस्यैषैष्योढोढ्यूहे स्वरेण // 12 // 14 // प्रशब्दसंबंधिनोऽवर्णस्य एष एष्य ऊढ ऊढि ऊह इत्येतेषु परेषु परेण स्वरेण सहितस्य स्थाने ऐदौतावादेशी स्याताम् आसन्नौ। श्रेषः। श्रेष्यः / प्रौढः / प्रौढिः / प्रौहः / ऊहे नेच्छन्त्येके। प्रस्येति किम् / अपोढः / एषादिष्विति किम् / प्रेतः। कथं प्रेषः, प्रेष्यः / ईषे इष्ये च भविष्यति / यदापि आ ईष्य एष्य इति तदापि 'ओमाडी ' त्यवर्णलोपे प्रेष्य इत्येव भवति / 'यस्मिन् प्राप्ते यो विधिरारभ्यते स तस्य बाधको भवतीति न्यायात् 'उपसर्गस्यानिणेधेदोति' इत्यस्यैवायं बाधको न त्वोमाङीत्यस्य / अथेह कस्मान भवति ? प्रेषते प्रेष्यते प्रोढवानिति / अर्थवद्ग्रहणेऽनर्थकस्याग्रहणात् / कथं तर्हि ऊढिशब्दस्य ण्यन्तस्य सार्थकस्य प्रोढयतीति प्रयोगः / अढशब्देन सार्थकेन स्याधन्तेन साहचर्यात् सहचरितासहचरितयोः सहचरितस्यैव ग्रहणात् ण्यन्ते औत्वाभावः। प्रौढादिशब्दात्तु णौ प्रौढयतीत्यादि भवेदेव / / ____48 स्वैरस्वैर्यक्षौहिण्याम् // 1 // 2 // 15 // स्वैर स्वैरिन् अक्षौहिणीत्येतेषु अवर्णस्य परेण स्वरेण सहितस्य ऐत् औत् इत्येतावादेशौ स्याताम् / स्वस्य ईरः स्वैरः, स्वयम् ईरति ईते वा स्वैरः, स्वयमीरितुं शीलमस्येति स्वैरी / 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहण' मिति स्वैरिणी। अक्षाणामूहोऽस्यामस्तीति अक्षौहिणी / स्वैरशब्दान्मत्वर्थीयेनैव इना सिद्धे पृथक् स्वैरिन्ग्रहणं ताच्छीलिकादिणिचन्तेऽपीरिन्शब्दे ऐत्वार्थम्। 49 अनियोगे लुगेवे // 1 / 2 / 16 // नियोगो नियमोऽवधारणम् / तदभावोऽनियोगोऽनवक्तृप्तिः / तद्विषये एवशब्दे परेऽवर्णस्य लुक् स्यात् / इहेव तिष्ठ / अद्येव गच्छ / स्वेच्छात्तिरत्र गम्यते नावधारणम् / नियोगे तु इहैव तिष्ठ मा गाः। ये त्वनियोगेऽव्यापारणे इच्छन्ति तन्मते शास्त्रलोकप्रतीतप्रयोगविरोधः। अथ कथं शकानामन्धुः शकन्धुः, अटतीत्यटा कुलात् कुलस्य वाऽटा कुलटा, पततीति पतः पतः अञ्जलेः पतञ्जलिः, सीम्नोऽन्तः सीमन्तः केशविन्यास एव, प्रार्थनायाऽध्ययनं प्रध्ययनम् , हलस्य ईषा हलीषा, लागलीषा, मनस् ईषा मनीषा, इत्यादि ? पृषोदरादित्वाद् भविष्यति / कथं तु वै त्वै, नु वै न्वै ? निपातान्तरमेतत् / .. 50 वौष्ठौतौ समासे / / 1 / 2 / 17 // ओष्ठशब्दे ओतुशब्देच परेऽवर्णस्य लुग्वा स्यात् , तौ चेनिमित्तनिमित्तनावेकत्र समासे भवतः। विम्बोष्ठी, विम्बौष्ठी। स्थूलोतुः, स्थूलौतुः / समास इति किम् / हे राजपुत्रौष्ठं पश्य / अवर्णस्येत्येव / शुच्योष्ठी। ....