________________ सिद्धहैमबृहत्मक्रिया. [ स्वरसन्धि 51 ओमाजि // 1 / 2 / 18 // अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् / आकि दीर्घत्वेनैव सिद्धे लुग्विधानमनर्थकं स्यादिति आङिति आङादेशो गृह्यते / अघोङ्कारः। आ ऊढा ओढा अद्य ओढा अघोढा / ओमाङिति किम् / तबौदनः / अवर्णस्येत्येव / आ ऋतोः अर्ताः, दधि अर्ताः दध्याः / 52 उपसर्गस्यानिणेधेदोति // 1 // 2 // 19 // उपसर्गसंबन्धिनोऽवर्णस्येणेधतिवर्जिते एकारादावोकारादौ च धातौ परे लुक् स्यात् / प्रलयति / परोखति ।उपसर्गस्येति किम् / प्रगता एलका अस्मादिति प्रैलको देशः / अनिणेधिति किम् / उपैति / उपैधते / एदोदिति किम् / उपायते / प्लायते / 53 वा नाम्नि // 1 / 2 / 20 // नामावयव एकारादावोकारादौ च धातौ परे उपसर्गसंबन्धिनोऽवर्णस्य लुग्वा स्यात् / उपेकीयति / उपैकीयति / प्रोषधीयति / प्रौषधीयति / दधि अत्र इति स्थिते। 54 इवर्णादेरस्वे स्वरे यवरलम् // 1 / 2 / 21 // इवोवर्णवर्णलवर्णा- ' नामस्वे स्वरे परे यथासंख्यं य् व् र् ल् इत्येते आदेशाः स्युः ।दध् य् अत्र इतिजाते। 55 अदीर्घाद् विरामैकन्यञ्जने // 1 / 3 / 32 // अदीर्घात् स्वरात् परस्य हस्वरवर्जस्य वर्णस्य स्थाने विरामेऽसंयुक्तव्यञ्जने च परेऽनु द्वित्वं वा स्यात् / इति धकारस्य वा द्वित्वम् / 56 स्थानीवावर्णविधौ // 74 / 109 // स्थानं प्रसङ्गः। सोऽस्यास्तीति स्थानी आदेशी / आदेशस्थानिनोः पृथक्त्वात् स्थानिकार्यमादेशे न प्रामोतीत्यतिदिश्यते / आदेशः स्थानिवत् स्यात्-स्थान्याश्रयाणि कार्याणि प्रतिपद्यते, न चेत् तानि स्थानिवर्णाश्रयाणि स्युः / अनेनेह यकारस्य स्थानिवत्त्वात् स्वरत्वमाश्रित्यादीर्घाद् विरामैकेति द्वित्वनिषेधः स्यादिति नाशंकनीयम् / सूत्रे 'अवर्णविधौ' इति तनिषेधात् / अत्र तु स्थानिवर्णाश्रयं कार्यमिति स्थानिवत्त्वस्य प्रसक्तिरेव नास्ति / 57 स्वरस्य परे प्राग्विधौ // 7 / 4 / 110 / / वर्णविध्यर्थमिदम् / स्वरस्यादेशः परे-परनिमित्तके व्यवहितेऽव्यवहिते वा पूर्वस्य विधौ कर्तव्ये स्थानीव स्यात् / अनेन यकारस्य स्थानिवद्भावे प्राप्ते / 58 न संधिङीयविदिदीर्घासद्विधावस्क्लुकि // 7 / 4 / 111 // पूर्वेणातिमसक्तः स्थानिवद्भावः प्रतिषिध्यते / संधिविधौ डीविधौ यविधौ किविधौ द्वयो